SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ऽस्यामिति हेतोः। अन्या ऋद्धिविशेषाद्दशार्णभद्रादिन्यायेन सर्वोपचारा सर्वैः प्रकारैरन्तःपुरहस्त्यश्वरथादिभिः सव्वबलेणं| सव्वसमुदएणं सव्वविभूसाए सव्वायरेणेत्याद्यागमादुपचारो विनयोऽस्यामिति कृत्वा ॥३॥ इयं च यादृशेन वित्तेन कार्या पुरुषेण च तदाह ॥ न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयम् । कर्तव्या बुद्धिमता प्रयुक्तससिद्धियोगेन ॥ ४ ॥ __ य. न्यायाजितेन न्यायोपात्तेन परिशोधितेन भावविशेषात् । वित्तेन द्रव्येण निरवशेषा सकलेयं पूजा कर्तव्या करणीया । बुद्धिमता प्रज्ञावता । प्रयुक्तसत्सिद्धियोगेन प्रयुक्तः वर्तितः सत्सिद्धियोगः सत्साधनव्यापारो येन स तथा ॥४॥ उ० इयं च यथा येन कार्या तथाह । न्यायेत्यादि । न्यायेनार्जितेन ततः परिशोधितेन भावविशेषाद्वित्तेन धनेन निरवशेषा सकलेयं पूजा कर्त्तव्या बुद्धिमता प्रयुक्तः ससिद्धियोगः सत्साधनव्यापारो येन स तथा तेन ॥४॥ । कीदृक्प्रयत्नेन पुनः पुंसा करणीयेयमित्याह ॥ | शुचिनात्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्धयोच्चैः॥५॥ य० शुचिना द्रव्यतः स्नानेन देशस स्नानाभ्यां देशस्नानं हस्तपादमुखप्रक्षालनं सर्वस्नानं शिरसा स्नानत्वे सत्यागमप्रसिद्ध्या भावतः शुचिना भावस्नानेन विशुद्धाध्यवसायेनेत्यर्थः । आत्मसंयमपरं आत्मनः शरीरस्य संयमः संवृताङ्गो-12 पाङ्गेन्द्रियत्वं तत्परं तत्प्रधानं यथा भवत्येवं पूजा कर्त्तव्या सितशुभवस्त्रेण सितवस्त्रेण शुभवस्त्रेण च । शुभमिह सिताद Jain Education in national For Private & Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy