SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पूजा अविच्छेदतो अस्य कर्त्तव्येत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेन ॥ स्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम्। विभवानुसारतो यत्काले नियतं विधानेन॥१॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा२॥ PI य० स्नानं गन्धद्रव्यसंयोजितं स्नात्रं वा विलेपनं चन्दनकुङ्कुमादिभिः सुष्टु सुगन्धि पुष्पाणि जात्यादिकुसुमानि । तथा सुगन्धिधूपो गन्धयुक्तिप्रतीतस्तदादिभिरपरैरपि शुभैर्गन्धद्रव्यविशेषैः कान्तं मनोहारि विभवानुसारतो विभवानुसारेण यत्पूजनमितिसंबन्धः काले त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा नियतं सदा विधानेन शास्त्रोक्तेन ॥१॥ उपकृतमुपकारो न विद्यते उपकृतं येषां त इमेऽनुपकृता अकृतोपकारा इत्यर्थः । ते च ते परे च तेभ्यो हितं तस्मिनतोऽभिरतः प्रवृत्तोऽनुपकृतप| रहितरतो निष्कारणवत्सलः शिवं ददातीति शिवदस्त्रिदशानामीशास्तैः पूजितो भगवान् समग्रैश्वर्यादिसंपन्नः पूज्यः पूजनीयो हितकामानां हिताभिलाषिणां सत्त्वानामित्येवंविधेन कुशलपरिणामेन भक्त्या विनयसेवया पूजनं पूजोच्यते ॥२॥ उ० पूजाविच्छेदतोऽस्य कर्त्तव्येत्युक्तं । सैव स्वरूपतोऽभिधीयते । स्नानेत्यादिकारिकायुग्मेन । स्नानं गन्धद्रव्यसंयोजितं स्नात्रं विलेपनं चन्दनकुंकुमादिभिः सुष्टु सुगन्धिपुष्पाणि जात्यादीनि सुगन्धिधूपः काकतुण्डादि तदादिभिरपरैरपि |शुभेगन्धद्रव्यविशेषः कान्तं मनोहारि विभवानुसारतः संपदनुसारेण यत्पूजनमित्यग्रे संबन्धः काले त्रिसन्ध्यं स्ववृत्त्यऽ| विरुद्धे वा काले नियतं सदा विधानेन शास्त्रोक्तेन ॥१॥ न विद्यते उपकृतमुपकारो येभ्यस्ते च ते परे च तेभ्यो हितं तस्मिन् रतः अनुपकृत उपकारफलाभागी सन् परहितरत इति वा निःकारणवत्सल इत्यर्थः । शिवदो मोक्षार्पकः त्रिदशे lain Educat IMinal For Private Personal Use Only Biainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy