SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयसमेतम्. उसे श्रीषोडश-16 मन्त्रराट् मन्त्रराजोऽयं असङ्गश्च सङ्गविकल आनन्दस्तद्धेतुत्वात् ब्रह्मरसो ब्रह्म सत्यं तपो ज्ञानं तद्विषयो रसोऽस्येति । चिन्त्यः चिन्तनीयस्तत्त्वज्ञमुष्टिरियं तत्त्वज्ञानां मुष्टिहितोपदेशो अविसंवादस्थानं एवं प्रतिष्ठागतो भावः संस्तुत इति ॥१५॥ प्रकरणम्. उ. अयमेव विशिष्य स्तूयते । निरपाय इत्यादि । अपायेभ्यो निर्गतो निरपायः सिद्धा अर्था अस्मिन्निति सिद्धार्थः ॥४६॥॥स्वात्मनि तिष्ठतीति स्वात्मस्थः स्वाभाविकगुणरूपत्त्वेनाल्पस्यापि बलीयस्त्वादौपाधिकप्रबलकर्मनाशक इति भावः । मन्त्र राट् मन्त्रराजः परममननत्राणगुणवत्त्वादसङ्गश्च सङ्गरहितश्चानन्दस्तद्धेतुत्वात् ब्रह्म सत्यतपोज्ञानरूपं तस्य रस आस्वादश्चिन्त्यश्चिन्तनीयस्तत्त्वज्ञानां मुष्टिरल्पेन बहुहितसङ्गोऽयं प्रतिष्ठागतो भावः ॥ १५ ॥ एवं प्रतिष्ठाविधिंपरिसमाप्य तच्छेषमाह ॥ अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या। दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः॥१६॥८॥ | य. अष्टौ दिवसान्यावत् अष्टदिनानि मर्यादया पूजा पुष्पबलिविधानादिभिरविच्छेदतोऽविच्छेदेनास्य बिम्बस्य कर्त्तव्या हुकरणीया । दानं तु यथा(विभव)विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम् ॥१६॥ उ. एवं प्रतिष्ठाविधिं परिसमाप्य तच्छेषमाह । अष्टावित्यादि । अष्टौ दिवसान् यावदविच्छेदेन नैरन्तर्येण पूजा पुष्पबलिविधानादिभिरस्य बिम्बस्य कर्त्तव्या दानं च यथाविभवं विभवानुसारेण दातव्यं सर्वसत्त्वेभ्यः शासनोन्नतिनिमित्तम्१६ ॥ इत्यष्टमं षोडशकम् ॥ JainEducation For Private Personal Use Only M ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy