SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥१॥ तेषामेव प्रणामादिक्रियानियम इत्यलं । क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः॥२॥ फलावश्चकयोगस्तु सय एव नियोगतः। सानुबन्धफलावाप्तिर्द्धर्मसिद्धौ सतां मतेति ॥ ३ ॥ योगदृष्टिसमुच्चये ॥ १३ ॥ वीजन्यास इत्युक्तमयं च संवर्द्धनीय इत्याह ॥ लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमॆत्र्यादिसंगतैर्वृहणीय इति ॥ १४॥ ___ य० लवमात्रं स्तोकमात्रमयं प्रतिष्ठागतो भावो नियमान्नियमेन उचितोचितभाववृद्धिकरणेन उचितोचिता चासो देशकालाद्यनुरूपा भाववृद्धिश्च तत्सम्पादनेन क्षान्त्यादियुतैः क्षमामाईवार्जवसन्तोषसमन्वितैः मैत्र्यादिसङ्गतैः मैत्रीकरगाणामुदितोपेक्षासहितैर्ब्रहणीय इति संवर्द्धनीय इत्येवमुक्तन्यायेन ॥ १४ ॥ उ. अयं च बीजन्यास उपायेन संवर्द्धनीय इत्याह । लवेत्यादि । लवमात्रं अपिगम्यः स्तोकमात्रमपि यथा स्यात्तथा किं पुनरधिकमात्रमित्यर्थः । अयं प्रतिष्ठागतो भावो नियमान्निश्चयेनोचितोचिता चासौ देशकालाद्यनुरूपा भाववृद्धिश्च तत्संपादनेन क्षान्त्यादियुतैः क्षमामाईवार्जवसंतोषसमन्वितैमैत्र्यादिसङ्गतमैत्रीकरुणामुदितोपेक्षासहिते हणीयो वर्द्धनीय इत्युक्तन्यायेन ॥ १४ ॥ - अयं संवर्द्धनीय इत्युक्तं स एव विशिष्य स्तूयते ॥ & निरपायः सिद्धार्थः स्वात्मस्थो मनराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥१५॥ य० अपायेभ्यो निर्गतो निरपायः । सिद्धा अर्था अस्मिन्निति सिद्धार्थः । स्वात्मनि तिष्ठतीति स्वात्मस्थो न परस्थो Jain Education Dahal For Private & Personal Use Only Mainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy