SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. ॥४४॥ शुभव्यापाररूपया वचनानलक्रियागतया प्रतिष्ठाया वचनक्रियारूपत्वादन्तर्गतत्त्वमतो हेतोः सफला फलवती, एषा बिम्बगता, प्रतिष्ठा । अत्र प्रक्रमे भावविधौ भवति अनेन भावप्रकारेमुख्यदेवताविषयस्य भावस्य हेतुत्त्वेन प्रसिद्धेरिति ॥९॥ | उ० अयं केवलभावव्यापारस्तत्र शास्त्रादिव्यापारमाह । वचनेत्यादि । वचनमागम एवानलोऽग्निस्तस्य क्रिया नियतविधिव्यापाररूपा तस्याः सकाशात् कर्मेन्धनदाहतो यतश्चैषा सिद्धकाञ्चनता भवति नतु केवलभावरसेन्द्रादेवातोऽस्माद्धेतोरेषा बिम्बगता प्रतिष्ठाप्यत्र प्रक्रमे भावविधौ भावसहकारितायां वचनक्रियारूपत्वेनेन्धनप्रक्षेपकल्पशुभव्यापाररूपयेतिकर्त्तव्यतया सहिता सफला ॥९॥ सफलैषा प्रतिष्ठेत्युक्तं सा कथं कर्तुर्जायत इत्याह ॥ एषा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः॥१०॥ य० एषा च प्रतिष्ठा लोकसिद्धा पूर्वाचार्यसिद्धा पुरुषपारम्पर्यक्रमायाता । शिष्टजनापेक्षया विशिष्टभव्यापेक्षयाऽखिलैव सव्वैव लोकलोकोत्तरगता प्रायो बाहुल्येन नानात्वं विशेषः पुनरिह प्रक्रमे लोकोत्तरप्रतिष्ठायां मत्रगतं मत्रविषयं |बुधा आचार्याः प्राहुर्बुवते ॥१०॥ उ० इयं प्रतिष्ठा कथं ज्ञेयेत्याह । एषा चेत्यादि । एषा च प्रतिष्ठाऽखिलैव लोकलोकोत्तरगता सर्वैव शिष्टजनापेक्षया विशिष्टभव्यापेक्षया लोकसिद्धा पुरुषपारम्पर्यप्रतीता प्रायो वाहुल्येन नानात्वं विशेषः पुनरिह लोकोत्तरप्रतिष्ठायां मन्त्रगतं मन्त्रविषयं बुधाः प्राहुः ॥१०॥ ॥४४॥ Jain Edustan For Private Personal Use Only linelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy