SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Education In प्रतिष्ठा निजभावस्यैवेत्युक्तं तदेवानुसन्धातुमाह ॥ भावरसेन्द्रात्तु ततो महोदयाजीवता स्वरूपस्य । कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता ॥ ८ ॥ य० भावरसेन्द्रात्तु भावो रसेन्द्र इव तस्मात्पुनस्तत इति मुख्यदेवतास्वरूपालम्बनान्महोदयात्पुण्यानुबन्धिपुण्यविभूतिलाभेन जीवता स्वरूपस्यात्मभावरूपस्य । कालेन विवक्षितेन कियतापि भवति जायते परमा प्रकर्षवर्त्तिनी अप्रतिबद्धा| प्रतिस्खलिता अनुपहता सिद्धकाञ्चनता सिद्धसुवर्णत्त्वं ॥ ८ ॥ उ० निजभावपक्ष एवोपपत्तिमाह । भावेत्यादि । भावो रसेन्द्र इव तस्मात्तु मुख्यदेवतास्वरूपालंबनान्महोदयात् पुण्यानुबन्धिपुण्यसंपलाभेन जीवभावरूपस्य जीवात्मस्वभावताम्रस्य कालेन कियतापि भवति परमा प्रकर्षवर्त्तिनी अप्रतिबद्धानुपहता सिद्धकाञ्चनता सिद्धभावस्वर्णता ॥ ८ ॥ कथं सिद्धकाञ्चनता भवतीत्याह ॥ | वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्त्तव्यतयाऽतः सफलैषाप्यत्र भावविधौ ॥ ९॥ to वचनमागमः सोऽनल इव तस्य क्रिया स्वकीयव्यापारस्तस्या वचनानलक्रियातः । कर्मेन्धनदाहतो यतश्चैषा कर्मेन्धनस्य दाहस्ततो यतश्चैषा सिद्धकाञ्चनता भवति । नच वचनानलक्रियया कम्र्मेन्धनदाहमन्तरेण भावरसेन्द्रादेव | सिद्धकाञ्चनता सम्पद्यते तस्माद्वचनानलक्रियापि कर्मेन्धनदाहनिमित्तभूता आश्रयणीया इतिकर्त्तव्यतया इन्धनप्रक्षेपकल्प For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy