SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश समेतम्. प्रकरणम्. ॥४३॥ विषयेयं प्रतिष्ठा तया मुख्यदेवतयाऽधिष्ठानमाश्रयणमादिनाऽहङ्कारममकारवासनारूपसन्निधानग्रहस्तच्चाधिष्ठानाद्यवीतरा- टीकाद्वयगसंसारिदेवतायाः कदाचित्स्याद्वीतरागदेवतायास्तु सर्वथानुपपन्नमिति भावः ॥६॥ अत्रैवाभ्युच्चयमाह ॥ इज्यादेन च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा वालक्रीडासमा भवति ॥७॥ ____ य० इज्या पूजा तदादेः सत्काराभरणस्नात्रादेर्नच नैव तस्या देवतायाः प्रस्तुताया उपकारः सुखानुभवसम्पादनलक्षणः कश्चिदत्र मुख्य इति । न कश्चिन्निरुपचरितो मुख्यदेवताया उपकारः संभवति । तत्तस्मादतत्त्वकल्पनैषाऽपरमार्थकल्पनैषा मुक्तिगतदेवतोपकारविषया बालक्रीडासमा भवति बालक्रीडया तुल्येयं वर्तते । यथा बालो नानाविधैरुपायैः क्रीडासुखमनुभवति । तथा तदुपकारार्थमिष्यमाणैः पूजासत्कारादिभिर्देवताविशेषोऽपि परितोषमनुभवतीति बालक्रीडातुल्यत्त्व-|| मुपकारपक्षे दोषः ये त्वात्मश्रेयोऽर्थ कुर्वते पूजासत्कारादि न तेषामयं दोषो भवतीतिभावः ॥७॥ उ० अत्रैवाभ्युच्चयमाह । इज्यादेरित्यादि । इज्या पूजा तदादेरादिना सत्काराभरणस्नात्रादिग्रहः नच नैव तस्याः प्रस्तुतदेवताया उपकारः सुखानुभवसम्पादनलक्षणः कश्चिदत्र मुख्यो निरुपचरित इत्युपदर्शनीयः। तत्तस्मादतत्त्वकल्पना|ऽपरमार्थकल्पनैषा मुक्तिस्थदेवतोपकारविषया बालक्रीडासमा भवति यथा बालो नानाविधैः क्रीडनोपायैः क्रीडासुखमनुभवति तथेज्यादिभिर्देवताविशेषोपि परितोषमिति बालक्रीडातुल्यत्त्वमुपकारपक्षे दोषः। ये त्वात्माशया(त्मश्रेयोऽर्थ पूजादि कुर्वते ॥४३॥ न तेषामयं दोष इतिभावः ॥७॥ Jain Education a n al For Private Personal Use Only Mjainelitrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy