SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वृत्ति संग्रहणी- |क्षिप, तस्य वृत्तत्वात , तत इष्टे प्रतरे धनं-व्यस्रादीनां संख्या भवति । तच प्रतराणां त्रयोदशादीनां धनमेकत्र मीलितं सत् विवक्षिते सौधर्मेशानादिके कल्पे धनं भवति । तत्र सौधर्मशानवलये प्रथमे प्रतरे एकस्यां दिशि ॥४१॥ द्वाषष्टिविमानानि, तेषां त्रिभिर्भागे लब्धानि व्यत्रचतुरस्रवृत्तानि प्रत्येकं विंशतिः, शेषे द्वे विमाने, तन्मध्यादेक व्यस्रेषु द्वितीयं चतुरस्रेषु क्षिप्यते, तत एकस्यां पतौ जातानि व्यस्राण्येकविंशतिः, चतुरस्राण्येकविंशतिः, वृत्तानि |विंशतिः, ततो राशित्रयमपि चतुर्गुणं कृत्वा वृत्तेष्विन्द्रकः प्रक्षिप्यते, ततः प्रथमे प्रतरे जातानि व्यस्राणि चतुरशीतिः, चतुरस्राणि चतुरशीतिः, वृत्तान्येकाशीतिः । ततो द्वितीये प्रतरे एकस्यां दिशि एकषष्टेस्त्रिभिर्भागे लब्धानि व्यस्रादीनि प्रत्येकं विंशतिः, शेषमेकं व्यस्रेषु क्षिप्यते, ततो राशित्रयस्य चतुर्गुणने इन्द्रकस्य च वृत्तेषु प्रक्षेपे जातानि द्वितीये प्रतरे व्यस्राणि चतुरशीतिः, चतुरस्राण्यशीतिः, वृत्तान्येकाशीतिः। तृतीये तु प्रतरे एकस्यां दिशि पष्टेस्त्रिभिर्भागे लब्धानि व्यस्रादीनि प्रत्येकं विंशतिः, तेषां चतुर्गुणने इन्द्रकस्य च वृत्तेषु प्रक्षेपे जातानि व्यस्रादाण्यशीतिः, चतुरस्राण्यशीतिः, वृत्तान्येकाशीतिः। एवं शेषप्रतरेष्वपि भावनीयम् । त्रयोदशखपि च प्रतरेषु व्यस्रादिसंख्यामीलनेन जातानि सौधर्मेशानवलये व्यस्राण्यष्टाशीत्यधिकानि नव शतानि, चतुरस्राणि द्वासप्तत्यधिकानि नव शतानि, वृत्तानि पञ्चषष्टयधिकानि नव शतानि, एवं शेषकल्पेष्वपि भावना कार्या । केवलं सौधर्मेशानयुग्मादिषु त्रयोदशसु स्थानेष्वावलिकासु वृत्तव्यस्रचतुरस्राणां विमानानां पृथक्संख्यानिरूपणाय यन्त्रकस्थापना । ॥४१॥ lain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy