________________
नउइ भवे सहस्साई। एगणं च दिवटे, सयं तु पुप्फावकिण्णाणं ॥२१॥" ॥७५॥ अथ कस्मिन् कल्पे कस्मिन्प्रतरे कस्यां वाऽऽवलिकायां कियन्ति विमानानि व्यस्राणि कियन्ति चतुरस्राणि कियन्ति वृत्तानीति निरूपणाय करणमाह
इगदिसिपंतिविमाणा, तिविभत्ता तंसचउरसा वट्टा । तंसेसु सेसमेगं, खिव सेसदुगस्स एकेकं ॥ ७६ ॥ तंसेसु चउरंसेसु अ, तो रासितिगं पि चउगुणं काउं ।
वट्टेसु इंदयं खिव, पयरधणं मीलिअं कप्पे ॥ ७७ ॥ व्याख्या-इष्टे कल्पे इष्टे च प्रतरे विमानेन्द्रकादेकस्यां दिशि यानि पतिविमानानि तानि त्रिभिर्विभक्तानि-त्रिषु स्थानेषु स्थापितानि क्रमात् त्र्यस्राणि चतुरस्राणि वृत्तानि च भवन्ति । त्रिधा विभक्तेषु च यद्येकं विमानं शेषमुद्धरितं भवति तदा तत् त्र्यनेषु क्षिप, वृत्तादनन्तरं व्यस्रस्य भावात्, यदा तु विमानद्विकमुद्धरति तदा तन्मध्यादेकं व्यस्रेषु एकं चतुरस्रेषु क्षिप, वृत्तादनन्तरं व्यस्रस्य तदनन्तरं च चतुरस्रस्य भावात् , एवमेकदिकपको त्र्यनचतुरस्त्र-४ वृत्तानां संख्या भवति । एतावन्ति च विमानानि चतुर्दिशं भवन्तीति राशित्रिकमपि चतुर्गुणं कृत्वा वृत्तेषु इन्द्रकं
in Educatan international
For Private & Personal Use Only
www.jainelibrary.org