________________
Jain Education Inte
| चतुर्द्दिशमेकैकं देवद्वीपस्योपरि त्र्यनं विमानमिति । तथा सर्वेष्वपि प्रतरेषु पतिमध्यगता इन्द्रकाख्यविमाना वृत्तास्तदनन्तरं व्यस्त्रास्ततश्चतुरस्रास्ततो वृत्ताः, तदनन्तरं पुनरपि क्रमेण त्र्यस्रादयो यावत् श्रेणिपर्यन्तः । यदुक्तम् - " सव्वेस पत्थडे, मज्झे व अनंतरं तंसं । तयणंतर चउरंसं, पुणोवि वहं तओ तंसं ॥१॥ वहं च वलयगंपिव, तंसं सिंघाडगंपिव विमाणं । पुण अक्खाडयसंटिभ, चउरंसविमाणयं भणियं ॥ २ ॥ तथा - सबे वट्टविमाणा, एगदुवारा हवंति नायवा । तिन्नि अ तंसविमाणे, चत्तारि उ हुंति चउरंसे || ३ || पागारपरिखित्ता, वट्टविमाणा हवंति सधेवि । चउरंसविमाणाणं, चउद्दिसिं वेइआ होइ ॥ ४ ॥ जत्तो वट्टविमाणा, तत्तो तंसस्स वेइआ होइ । पागारो बोद्धच्चो, अवसेसेसुं तु पासेसुं ॥ ५ ॥" अत्र वेदिका मुण्डप्राकारः । तासां च पूर्वोक्तानां पतीनामन्तरेषु पूर्वदिशं मुक्त्वा शेषासु - दक्षिणोत्तरपश्चिमासु दिक्षु पतिगतविमानक्षेत्रपरिहारेण प्राङ्गणे पुष्पाणीव यतस्ततोऽवकीर्णानि विमानानि भवन्ति । यदुक्तम्- पुप्फावकिण्णगा पुण, दाहिणओ पच्छिमेण उत्तरओ । पुत्रेण विमाणिंदस्स, नत्थि पुप्फावकिण्णा उ ॥ १॥" तानि च पुष्पावकीर्णानि विविधानि नन्द्यावर्तखङ्गादिविचित्रसंस्थानानि । यदाह - " पुप्फावकिण्णगा पुण, | अणेगविहरूवसंठाणा" । स्थापना ॥७२-७३-७४ ॥ सम्प्रति प्रतिकल्पमावलिकागतविमान संख्यानयनाय करणमाह
१ चोरंस विमाणाणं, पुण अक्खाडयसंठियं भणियं इति प्रत्यन्तरे ।
For Private & Personal Use Only
www.jainelibrary.org