________________
वत्ति :
संग्रहणी
कोनत्रिंशद्भागैरधिकं बोद्धव्यं ॥४॥तदेवमभिहिता सप्रपञ्च प्रतिद्वीपंप्रतिसमुद्रं च चन्द्रादिसंख्या, साम्प्रतं मनुष्यक्षेत्रे
एव चन्द्रसूर्यपतीनां संख्यादिरूपमाह॥३४॥
दो दो ससिरविपंती, एगंतरिआ छसट्टिसंखा य ।
मेरु पयाहिणंती, माणुसखेत्ते परिअडंति॥६५॥ व्याख्या-द्वे चन्द्रपली द्वे च सूर्यपङ्की यथाक्रममेकया सूर्यपङ्क्त्या चन्द्रपङ्क्त्या चान्तरिते, प्रत्येकं पट्पष्टिचन्द्रसंख्ये पट्पष्टिरविसंख्ये च, जम्बूद्वीपगतं मेरुं प्रदक्षिणयन्यौ परिसमन्तादटतो-भ्रमतः । इहायं भावार्थो-यदा
जम्बूद्वीपे मेरोदक्षिणत एकः सूर्यश्चारं चरति,तदा द्वितीय उत्तरस्यां,तदैव दक्षिणदिग्भागे दक्षिणसूर्यसमश्रेण्या द्वौ सूयौं । हलवणे, पट्र धातकीखण्डे, एकविंशतिः कालोदे, पत्रिंशत् पुष्करवरद्वीपार्धे चारं चरन्ति । एवमुत्तरतोऽप्युत्तरसूर्यसम
ण्या लवणादिपु सूर्याश्चारं चरन्ति । एवं च प्रत्येकं षट्पष्टिसूर्यसंख्ये द्वे सूर्यपती,एवमेव च द्वे चन्द्रपङ्की भवतः। पतिद्वये तु समुदितानां मनुष्यक्षेत्रे सूर्याणां द्वात्रिंशं शतं, एवं चन्द्राणामपि ॥६५॥ एवं चन्द्रााणां पतया भ्रमिमभिधाय ग्रहादीनामतिदेशेनाह
॥३४॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org