________________
द्वीपा उदधयश्च भवन्ति, सर्वेऽपि चैते अरुणमादिं कृत्वा त्रिप्रत्यवताराः, तत्रारुणादीनां क्रौञ्चान्तानां त्रिप्रत्यवतारता प्रागेव भाविता, आभरणादीनां तु भाव्यते-तद्यथा-हारो द्वीपो हारः समुद्रो, हारवरो द्वीपो हारवरः समुद्रो, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, एवं तावत् त्रिप्रत्यवतारनामानो द्वीपाः समुद्राश्च वक्तव्या यावद्देवद्वीपादक सूर्यवरावभासः समुद्रः, तथाच जीवाभिगमः- एवं सचे तिपडोआरा जाव सूरवरावभासे दीवे समुद्दे'। इति । तथा चूर्णिश्चास्य 'अरुणाई दीवसमुद्दा तिपडोआरा यावत् सूर्यवरावभास' इति । तथा जम्बूद्वीपलवणादयस्ते द्वीपोदधयः प्रत्येकमसङ्ख्यया, इदमुक्तं भवति-देवादिद्वीपसमुद्राणां नामानि वर्जयित्वा शेषैर्जम्बूद्वीपादिनामभिलवणादिनामभिश्च द्वीपाः समुद्राश्च प्रत्येकमसंख्याता भवन्ति, तेषां च सर्वेषामप्यसंख्यातानां द्वीपसमुद्राणामन्तिमः-18 पर्यन्तवर्ती यः सूर्यवरावभासः समुद्रस्तस्मात्परं पुनः सर्वतिर्यग्लोकपर्यन्तवर्तिनो देवादयः पञ्च द्वीपाः पञ्च समुद्राश्च ।
प्रत्येकमेकैके न त्रिप्रत्यवतारा नापि प्रत्येकमसंख्याताः, देवादिनाम्ना द्वीपः समुद्रश्चान्यो नास्तीत्यर्थः, तथाच जीवा-2 18/भिगमः, 'देवे नागे जक्खे भूए अ सयंभुरमणे अ एक्कक्के चेव भाणिअन्वे, तिपडोआरया नस्थिति । तथा-केवइ-131
आणं भंते ! जंबुद्दीवा दीवा पन्नत्ता ? गोअमा! असङ्ग्रेजा जम्बुद्दीवा दीवा पन्नत्ता, एवं जाव सूरवरावभासा समुद्दा । असङ्ग्रेज्जा । केवइआणं भन्ते ! देवदीवा ? गोयमा! एगे देवदीवे पन्नत्ते, दसवि एगागारा' इति । तथा सर्वेऽपि जम्बूद्वीपलवणादयो द्वीपसमुद्राः प्रत्येकमेकया प्राकारकल्पया विजयवैजयन्तजयन्तापराजिताख्य चतुरिया सर्वरत्न-15
SAAMASCULINCREASE
lain Education in
For Privale & Personal use only
T
w
.jainelibrary.org