SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥२९॥ BACKGRESCRIKCACANCERIC तन्नामा दीवुदही, तिपडोआयार हुंति अरुणाई । जंबूलवणाईआ, पत्तेअं ते असंखेज्जा ॥ ५९॥ ताणंतिमसुरवरावभासजलही परं तु एक्कक्के । देवे नागे जक्खे, भूए अ सयंभुरमणे अ॥ ६॥ व्याख्या-'आभरणवत्थगन्धे' इत्यादौ 'प्राकृते विभक्तिव्यत्ययोऽपी'ति षष्ठयर्थे प्रथमा, तत आभरणानां हारार्द्धहाररत्नावलीप्रभृतीनां यानि कानिचित् नामानि, तथा वस्त्राणां कौशेयादीनां, गन्धानां कोष्ठपुटादीनां, उत्पलादीनां (उत्पलानां) नीलोत्पलकुमुदादीनां, तिलकानां वृत्ततिलककलस(श)तिलकादीनां तिलकस्य वा वृक्षविशेषस्य उपलक्षणात् शेषवृक्षाणां च, पद्मानां शतपत्रपुण्डरीकादीनां, निधीनां नवानां, रत्नानां वजेन्द्रनीलादीनां चक्रवर्तिसम्ब-15 न्धिनां चक्रादीनां च, वर्षधराणां हिमवदादीनां, द्रहाणां पद्महदादीनां, नदीनां गङ्गादीनां, विजयानां कच्छादीनां, वक्षस्काराणां चित्रादीनां, कल्पानां सौधर्मादीनां, इन्द्राणां शक्रादीनां, कुरूणां देवकुरूत्तरकुरूणां, मन्दराणां मेरूणां, आवासानां तिर्यग्लोके शक्रादिसम्बन्धिनां, कूटानां हिमवदादिसम्बन्धिनां, नक्षत्राणां कृत्तिकादीनां, चन्द्राणां सूर्याणां च यानि नामानि, एवमन्यान्यप्येवमादीनि प्रशस्तानि शुभानि वस्तूनां पदार्थानां यानि नामानि तन्नामानो 8 For Private Personal use only W w .jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy