SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ दीवेसु हुँति जलही, दीवसमाणेहिं नामेहिं ॥ ५६ ॥ सुगमा । केवलं पाश्चिदुक्तद्वीपोदधीनामन्वर्थो दर्श्यते-तत्र जम्बूद्वीपे तत्र तत्र देशे बहवो जम्बूवृक्षा जम्बूवनानि जम्बूखण्डा नित्यकुसुमिता यावत्सश्रीकाः सन्ति । अत्रैकजातीयवृक्षौघो वनं, नानाजातीयवृक्षौघः खण्डः, परं प्रधानेन व्यपदेशात् जम्बूखण्ड इति जम्ब्बा व्यपदेशः । तथा पार्थिवो रत्नहेमरजतमयोऽनाहताभिधा-3 नस्य द्वीपाधिपदेवस्यावासभूत उत्तरकुरुवर्ती जम्बूवृक्षोऽस्तीति जम्बूपलक्षितो द्वीपो जम्बूद्वीपः । शाश्वतं चेदंद्र &ीनाम, नतु कालत्रयेऽप्यन्यथाभावः १॥ एवमग्रतनान्यपि नामानि शाश्वतानि बोद्धव्यानि । लवणं-क्षारमुप लक्षणात्तीक्ष्णं कटुकं वृद्धिहानिभ्यां पङ्कबहुलं, तद्योनिकान् विमुच्य शेषसत्त्वानामपेयं च जलमस्येति लवणसमुद्रः । सुस्थितोऽत्राधिपः २॥ धातकीखण्डे तत्र तत्र बहवो धातकीनां वृक्षाणां वनानि खण्डा नित्यपुष्पितत्वादिगुणाः सन्ति । तथा च पूर्वापरार्द्धयोः सुदर्शन प्रियदर्शनदेवावासौ धातकीमहाधातकीवृक्षौ स्तः । ततो धातकीखण्डोपलक्षितो द्वीपो धातकीखण्डः ३॥ कालं-माषराशिवर्णाभ, पूर्वापरार्द्धाधिष्ठात्रोः कालमहाकालदेवयोर्वा सम्बन्धि च उदकं यत्रेति कालोदो । 'नाम्युत्तरपदस्य चे(३-२-१७)त्युदादेशः ४॥ पुष्करवरे तत्र तत्र पद्मान्यतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मवनानि, पद्मखण्डाः , तथा पूर्वापरार्द्धयोः पद्मपुण्डरीकदेवावासौ पद्ममहापद्मवृक्षौ, पद्मं च पुष्करमिति: Main Education Intematona For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy