________________
संग्रहणी
॥२८॥
पुष्करवरोपलक्षितो द्वीपः पुष्करवरः ५॥ पुष्करवरोदे जलं स्वच्छं पथ्यं जावं लघुस्फटिकाभमुदकरसं, श्रीधरश्रीप्रभदेवाभ्यां च (स) परिवाराभ्यां गगनमिव चन्द्रार्काभ्यां सनक्षत्रताराभ्यां तदुदकं भातीति, पुष्करमिव वरमुदकं यस्थासौ पुष्करवरोदः६॥वरवारुणीव वाप्यादिषूदकं यस्येति वारुणीवरः, वरुणवर इत्यप्यागमे दृश्यते, ततःपृषोदरा|दित्वादिष्टरूपसिद्धिः। तथा वरुणवर(रु)णप्रभौ चात्र देवी, ततो वरुणदेवप्रधानो द्वीपो वरुणवरः ७॥ वरवारुणीव, वारुणवारुणकान्तयोर्वा देवयोः सम्बन्धि उदकं यस्यासौ वारुणीवरोदः । प्राग्वदू वारुणवरोदो वरुणोदश्चेति ८॥ क्षीरोपमं वाप्यादिपूदकं, क्षीरप्रभौ पुण्डरीकपुष्पदन्तौ देवी चात्रेति क्षीरवरो द्वीपः ९॥ क्षीरमिय, यद्वा क्षीरोज्वलयोर्विमलविमलप्रभदेवयोः सम्बन्धि उदकं यस्येति क्षीरोदः १०॥ घृतोदकवाप्यादियोगात् घृतवर्णकनककनकप्रभदेवखामिकत्वाच घृतवरो द्वीपः ११॥ घृतमिवोदकं यस्यासौ घृतोदः। कान्तसुकान्तौ चात्र देवी १२॥ क्षोदः-क्षोदरस इक्षुरस इत्यर्थः, तद्रूपोदकवाप्यादियोगात् क्षोदवरो द्वीपः। सुप्रभमहाप्रभौ चात्र देवी १३ ॥ क्षोद इवोदकं यस्येति क्षोदोदः, पूर्णपूर्णप्रभौ चात्र देवौ १४ ॥ नन्दीश्वरे द्वीपे क्षोदोदकपूर्णेषु वाप्यादिजलस्थानेषु सर्ववज्रमयेषूत्पातपर्वतेषु 'वाणमन्तरा देवा देवीओ अ आसयन्ति सयन्ति जाव विहरन्ति' कैलासहरिवाहनौ च द्वौ महर्द्धिकावधिपती। तथा चतसृष्वपि दिक्षु मध्यभागे एकैकोऽअनरत्नमयोऽजनकपर्वतः, तचतुर्दिशं चतसश्चतस्रो वाप्यः, तासु च मध्यभागे एकैकः स्फटिकमयो दधिमुखपर्वतः, षोडशानामपि च वापीनामपान्तराले द्वौ
RECECSECCCCRACCACASSAGAR
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org