SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥२७॥ सुगमा । नवरं 'वहोत्ति तैलापूपसंस्थानः ॥ ५४॥ कियतामपि द्वीपानां साक्षान्नामान्याह जंबु धायइ पुक्खर, वारुणि खीर घय खोअ नंदिसरा । अरुणरुणुवाय कुंडल, संख रुअग भुअग कुस कुंचा ॥ ५५॥ व्याख्या-प्रथमो द्वीपो जम्बूद्वीपो, द्वितीयो धातकीखण्डस्तृतीयः पुष्करवरश्चतुर्थो वारुणीवरः, पञ्चमः क्षीरवरः पष्ठो घृतवरः, सप्तम इक्षुवरोऽष्टमो नन्दीश्वरो, नवमोऽरुणः, ततोऽरुणुवायत्ति-प्राकृतत्वादरुणोपपातः, अरुणशब्दस्य उप-सामीप्येन प्राक्पातः-पतनं नाम्नि यस्येति कृत्वा यथा दशमोऽरुणवरः, एकादशोऽरुणवरावभासः, एतानि च जम्बूद्वीपादारभ्य क्रमेण द्वीपानां नामानि । अत ऊवं तु शङ्खादिनामानि यथा कथञ्चित् , परं तान्यपि त्रिप्रत्यवताराणि, यथा-शङ्खः, शङ्खवरः, शङ्खवरावभासः, रुचको, रुचकवरो, रुचकवरावभासः। एवं कुण्डलादिष्वपि त्रिप्रत्यवतारता वाच्या, सूचकत्वात् सूत्रस्य । ततो द्वादशः कुण्डलस्त्रयोदशः कुण्डलवरश्चतुर्दशः कुण्डलवरावभासः, भुजगो, भुजगवरो, भुज (ग) वरावभासः (कुशः) कुशवरः, कुशवरावभासः, क्रौञ्चः, (क्रौञ्चवरः) क्रौञ्चवरावभास इति ॥ ५५ ॥ एते च सर्वेऽपि प्रत्येकमेकैकेन समुद्रेण वेष्टिताः, अतः साक्षादतिदेशाच तन्नामान्याह पढमे लवणो जलही, बीए कालोउ पुक्खराईसु । ॥२७॥ Jain Education international For Privale & Personal use only www.jainelibrary.orl
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy