________________
OMMOCRACCESSOCALCCASSAGES
। सुगमं । नवरं 'दित्त'त्ति दीप्ताः-भाखराः, पशिखरूपं चाग्रे भावयिष्यते ॥ ५२ ॥ अधुना द्वीपसमुद्रेषु चन्द्रा-1 दिसंख्यामभिधित्सुस्तावत्तेषामेवयत्तामाह
उद्धारसागरदुगे, सड्ढे समएहिँ तुल्ल दीवुदही।
दुगुणादुगुणपवित्थर, वलयागारा पढमवजं ॥ ५३॥ व्याख्या-उद्धारसागरोपमयोः-प्रागुक्तखरूपयोईिके साढे यावन्तः समयास्तैस्तुल्याः-तावत्संख्या द्वीपोदधयो । भवन्ति । कथंभूता ? द्विगुणद्विगुणप्रविस्ताराः-पूर्वस्मात् पूर्वस्माद् द्विगुणो द्विगुणश्च क्रमेण वर्द्धनात् प्रकृष्टो विस्तारो विष्कम्भो येषां ते तथा । तथाहि-जम्बूद्वीपो विस्तारतः प्रमाणाङ्गुलेन योजनानां लक्षं, लवणसमुद्रो द्वे, धातकीखण्डश्चत्वारि, कालोदोऽष्टौ, पुष्करवरः षोडश, पुष्करवरोदो द्वात्रिंशदेवं यावदसंख्ययोजनकोटीकोटीप्रमाणात् स्वयम्भूरमणद्वीपात् खयम्भूरमणः समुद्रो द्विगुणविष्कम्भ इति । प्रथमं च जम्बूद्वीपं वर्जयित्वा शेषा लवणादयो जलधिद्वीपा वलयाकाराः ॥ ५३॥ द्वीपोदधीनामेव खरूपमाह
पढमो जोअणलक्खं, वट्टो तं वेढिउं ठिआ सेसा । पढमो जंबूद्दीवो, सयंभुरमणोदही चरमो ॥ ५४ ॥
wain Education inte
For Privale & Personal use only
jainelibrary.org