________________
संग्रहणी
माणुसनगाउ बाहि, चंदा सूरस्स सूर चंदस्स ।
जोअणसहसा पन्नासणूणगा अंतरं दिहें ॥ ५१ ॥ व्याख्या-मनुष्यक्षेत्रसीमाविधायिनो मानुषोत्तराभिधानपर्वताहिश्चन्द्रात् सूर्यस्य, सूर्याच चन्द्रस्य पञ्चाशत् योजन-1 सहस्रा अनूना अन्तरं दृष्टं, तीर्थकृद्गणधरादिभिः। तथा च सूर्यप्रज्ञप्तिः-"चंदाओ सूरस्स य, सूरा चंदस्स अंतरं होइ ।||
पन्नास सहस्साइं, जोअणाणं अणूणाई ॥१॥" ति ॥ ५१ ॥ इदानी चन्द्राचन्द्रस्य सूर्यात् सूर्यस्य च परस्परहामन्तरं गाथार्द्धनाह
ससि ससि रवि रवि साहिअ-जोअणलक्खेण अंतरं होइ । व्याख्या-इह प्राकृतत्वेन विभक्तिलोपात् शशिनः शशिनो रखे रवेश्च साधिकयोजनलक्षेण परस्परमन्तरं भवति । साधिकत्वं च पूर्वगाथोक्तयोयोरन्तरयोर्मीलने तन्मध्ये (ध्य) वर्तिनो भानोश्चन्द्रस्य वा सम्बन्धिनो विष्कम्भस्य च प्रक्षेपे समवसेयं ॥ मनुष्यलोकादहिश्चन्द्रार्काणां पटाववस्थानं गाथापश्चिमार्द्धनाह
रविअंतरिआ ससिणो, ससिअंतरिआ रवी दित्ता ॥ ५२ ॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org