SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गाथाद्वयमपि सुगम । नवरं व्याघाते-पर्वतादिस्खलने उत्कृष्टमन्तरं मेरुमपेक्ष्य भावनीयं । तथाहि-मेरुद्देश योजनसहस्राणि, तस्य चोभयतोऽवाधा प्रत्येकमेकविंशत्यधिकान्येकादश योजनशतानि, ततः सर्वमीलनेन भवन्ति योजनानां द्वादशसहस्रा द्वे च शते द्विचत्वारिंशदधिके । जघन्यं तु निषधकूटाद्यपेक्षं, तथाहि-निषधपर्वतः खतोऽप्युच्चैश्चत्वारियोजनशतानि, तस्य चोपरि पञ्चयोजनशतोचानि कूटानि, तानि चायामविष्कम्भाभ्यां मूले पञ्च योजनशतानि, मध्ये त्रीणि शतानि पञ्चसप्तत्यधिकानि, उपरि चार्द्धतृतीयानि योजनशतानि, तेषां च कूटानामुपरितनभागस्य समश्रेणिप्रदेशे तथा जगत्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्तीति भवति जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिक इति। निर्व्याघातान्तरभावना तु सुगमैव । न चाग्रेतनसंग्रहणीषु जम्बूद्वीपे इति विशेषणस्य व्याघातान्तरस्य चानभिधानात्कथमिदमवसीयत इति वाच्यं । सूर्यप्रज्ञप्ती जीवाभिगमे च तथाभिधानात् , तथा च तद्न्थः -'जम्बुद्दीवेणं भंते ! दीवे तारारुवस्स तारारूवस्स य अबाहाए केवइए अंतरे पन्नत्ते ? गोअमा! दुविहे अंतरे पन्नत्ते, तंजहा-वाघाइमे अनिवाघाइमे अ, तत्थ णं जे से वाघाइमे से णं जहन्नेणं दोन्नि छावटे जोअणसए, उक्कोसेणं बारस जोअणसहस्साइ दोन्नि बायाले जोअणसए" इत्यादि ॥४९॥५०॥ साम्प्रतं मनुष्यक्षेत्रान्तर्वर्तिनां चन्द्रार्काणां प्रतिदिनमपरापरमण्डलेषु परिभ्रमणतोऽनयस्थितान्तरत्वात् मनुष्यक्षेत्राद्धहिर्घण्टाकारावस्थितानां तेषामन्तरालप्रमाणमाह XARA******KARAXXARAS wain Education in For Privale & Personal use only w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy