________________
संग्रहणी
॥ २५ ॥
Jain Education In
वृत्तिः.
| दिवस मेकैकां चन्द्रमण्डलस्य कलामात्मीयेन पञ्चदशेन भागेनावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तथैव मुञ्चति । इहायं सम्प्रदायो- द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागौ सदा अनावार्यौ, शेषस्य पञ्चदशभिर्भागैर्लब्धाश्चत्वारो । | भागास्ते उक्तरीत्याऽऽत्रियन्ते मुच्यन्ते चेति । एवं च जगति चन्द्रमण्डलस्य हानिर्वृद्धिश्च प्रतिभासते, यावता खरूपे|णावस्थितमेव तचन्द्रमण्डलम् । आह-चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजन मानत्वात् राहुविमानस्य च ग्रहविमा - | नत्वेनार्द्धयोजन मानत्वात् कथं राहुविमानेन सर्वात्मना चन्द्रविमानावरणस्य सम्भवः ? । उच्यते - ग्रहविमानाना| मुक्तप्रमाणस्य प्रायिकत्वात् राहुविमानमधिकप्रमाणमपि सम्भाव्यत इत्यदोषः । अन्ये त्वाहुः - लघीय सोऽपि राहुविमानस्यात्यन्तवहलेन प्रसर्पता तामिस्ररश्मिजालेन महदपि चन्द्रविमानमात्रियत इति ॥ ४८ ॥ साम्प्रतं जम्बूद्वीपे - ताराविमानानां व्याघाते निर्व्याघाते च प्रत्येकमुत्कृष्टं जघन्यं चान्तरालप्रमाणं गाथाद्वयेनाह -
तारस्स य तारस्स य, जंबुद्दीवंमि अंतरं गुरुअं । वारस जोअणसहसा, दोन्नि सया चैव बायाला ॥ ४९ ॥ छावा दो असया, जहन्नमेअं तु होइ वाघाए । निवाघाए गुरुलहु, दो गाउअ धणुसया पंच ॥ ५० ॥
For Private & Personal Use Only
॥ २५ ॥
www.jainelibrary.org