SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern तथा पूर्वाचार्यप्रसिद्धेः, तेन पट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि ताराकोटीनां बोद्धव्यानि, नतु कोटाकोटीनां । अन्ये त्वाहुः - 'नगपुढविविमाणाई, भिणसु पमाणंगुलेणं तु' इति वचनात्ताराविमानानां खरूपेण कोट्य एव सत्यो यदोत्सेधाङ्गुलेन सर्वतो मीयन्ते तदा कोटीकोट्यो जायन्त इति । तथा च विशेषणवत्यां क्षमाश्रमणः | - ' कोडाकोडी सन्नन्तरन्ति मन्नन्ति केइ ( खित्त ) थोवतया । अन्ने उस्सेहङ्गुलमाणं काऊण ताराण ॥ १॥' मिति ॥ ४७ ॥ | अधुना चन्द्रपरिवारवक्तव्यताप्रस्तावात् तत्परिवारभूतग्रहान्तर्गतस्य राहोर्वक्तव्यतामाह कि राहुविमाणं, निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरइ ॥ ४८ ॥ व्याख्या - इह द्विधा राहुः - नित्यराहुः पर्वराहुश्च । तत्र पर्वराहुः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वा तिरोधत्ते; तिरोहिते च तस्मिन् ग्रहणमिति लोकानां प्रतीतिः । स च पर्वराहुर्जघन्यतः षट्सु मासेव्वितिक्रान्तेषु चन्द्रस्य सूर्यस्य वा उपरागं करोति, उत्कर्षतश्चन्द्रस्य द्विचत्वारिंशति मासेपु, सूर्यस्य त्वष्टाचत्वारिंशति संवत्सरेष्विति । यस्तु नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथाजगत्स्वाभाव्यान्नित्यमाकालं चन्द्रेण सार्द्ध भवत्यविरहि| तं; तथा चतुरङ्गुलेन चतुर्भिरङ्गुलैरप्राप्तं सच्चन्द्रस्य - चन्द्रविमानस्याधस्तात्तच्चरति, तच्च कृष्णपक्षे प्रतिपद आरभ्य प्रति For Private & Personal Use Only lainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy