________________
संग्रहणी
॥२४॥
तैस्तथा चन्द्रादिविमानानां वहनेऽपि भारो मन्यते, मत्तकामिनीभिरिव विशिष्टाभरणानामिति ॥४४-४५॥ सम्प्रति लावृषि चन्द्राणां ज्योतिश्चक्राधिपत्वात्परिवारसंख्यामाह
गहअट्टासी नक्खत्त, अडवीसं तारकोडिकोडीणं ।
छासहिसहस्स नवसय, पणहत्तरि एगससिसिन्नं ॥ ४६ ॥ व्याख्या-ग्रहाः-मङ्गलादयोऽष्टाशीतिः, नक्षत्राणि-अभिजिदादीन्यष्टाविंशतिः, ताराः-कोटीकोटीनां पट्पष्टिः सहस्रा नवशतानि पञ्चसप्तत्यधिकानि, एतावदेकस्य शशिनः सैन्यं परिवारः॥४६॥ नन्वेकस्य शशिन एतावत्तारक-| परिवारत्वे मनुष्यक्षेत्रे सर्वसंख्यया द्वात्रिंशदधिकशतसंख्यानां चन्द्रमसां तारागणः परिभाव्यमानोऽतिभूयान् भवेत् , ततः कथं क्षेत्रस्य स्तोकत्वादेतावतस्ताराणां गणस्य मनुष्यलोकेऽवस्थानमित्येतचेतस्याशङ्कयाह
___ कोडाकोडी सन्नंतरंति मन्नंति खेत्तथोवतया। केई अन्ने उस्सेहंगुलमाणेण ताराणं ॥ ४७॥
॥२४॥ व्याख्या-इह द्वे मते, तत्र केचित्कोटीनामेव कोटाकोटीति संज्ञान्तरं-नामान्तरं मन्यन्ते, क्षेत्रस्य स्तोकत्वेन,
in Education Intematona
For Privale & Personal use only
ww.jainelibrary.org