SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Mसन्ति, केवलमाभियोगिकसुरास्तथाविधाभियोग्यनामकर्मोदयात् समानजातीयानां हीनजातीयानां वा अन्येषां निज स्फातिप्रकटनेनात्यन्तप्रमोदाच सततवहनशीलान्यपि विमानान्यधःस्थित्वा स्थित्वा सिंहादिरूपधारिणो वहन्ति, नचैतन्नोपपद्यते, यतो यह मनुष्यलोके कश्चित्तथाविधाभियोग्यनामकम्मोदयाद्दासत्वमनुभवन्नपि सजातीयेतराणां परिचितापरिचितानामन्येषामेवमहमस्य विख्यातनायकस्य सम्मत इति निजसमृद्धिदर्शनार्थं समस्तमपि खोचितं कर्म प्रमुदितः करोति, एवमेतेऽप्याभियोगिकसुराश्चन्द्रादिविमानानि वहन्तीति । तथा च तत्त्वार्थभाष्यम्-"अमूनि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थमाभियोग्यनामकम्मोदयाच नित्यं गतिरतयो देवा वहन्तीति" तथा विमानानामधः क स्थिताः किंरूपधारिणश्चैते देवा वहन्तीति दर्शयति-'पुरो येत्यादि चशब्द उक्तसंख्यापेक्षया वक्तव्यान्तरसमुच्चये, पश्चिम उत्तर इत्यत्र प्राकृतत्वात् प्रत्ययलोपः, 'कमसोत्ति' क्रमेण यथासंख्यं, ततोऽयमर्थः-पुरोऽग्रभागेऽधःस्थिताः सिंहरूपधारिणो देवाश्चन्द्रादिविमानानि वहन्ति, एवं दक्षिणतः कुञ्जररूपधारिणः, पश्चिमतो वृषभरूपा, उत्तरतो हयाः- अश्वास्तद्रूपभृतः, तत्र चन्द्रविमानं सिंहादिरूपधारिणः प्रत्येकं । चतुश्चतुःसहस्रसंख्याः सुरा वहन्तीति सर्वेऽपि षोडश सहस्राः, एवं सूर्यविमानमपि, ग्रहविमानं सिंहादिरूपधारिणः प्रत्येकं द्विद्विसहस्रसंख्याः, नक्षत्रविमानमेकैकसहस्रसंख्याः, ताराविमानं पञ्चपञ्चशतसंख्याः सुरा वहन्तीति । न च lain Education in For Privale & Personal use only M w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy