________________
संग्रहणी॥ २३ ॥
ORELERSCRICA
व्याख्या-शशी चन्द्रस्तत्प्रभृतयो यथोत्तरं शीघ्रा भवन्ति, यो यस्मादुत्तरः स तस्माच्छीघ्र इत्यर्थः, हुशब्दः प्रस्तु
वृत्ति तार्थसमर्थने, तथाहि-सर्वमन्दगतयश्चन्द्रास्तेभ्यो रवयः शीघ्राः ततो ग्रहाः तेभ्यो नक्षत्राणि ततोऽपि ताराः शीघ्रतराः, हुशब्दोऽव्ययत्वेनानेकार्थत्वादनुक्तसमुच्चयेऽपि, तेन बुधात् शुक्रः शुक्रात्मङ्गलो मङ्गलाद् बृहस्पतिवृहस्पतेश्च । शनैश्चरः शीघ्र इत्यपि वोद्धव्यं, विपरीताःपुर्नमहर्द्धिकास्तथाहि-सर्वाल्पर्द्धयस्तारास्तेभ्यो नक्षत्राणि महर्धिकानि ततो ग्रहास्तेभ्यः सूर्यास्ततोऽपि चन्द्रा महर्द्धिकाः, एतेषु च तारकाः पञ्चवर्णाः शेषाः पुनरुत्तप्तकनकवर्णाः, सर्वेऽपि चैते विशिष्टवस्त्राभरणभूषणा मुकुटमण्डितमौलयः, केवलं चन्द्राणां मुकुटाग्रभागे प्रभामण्डलस्थानीयं चन्द्रमण्डलाकारं चिह्न, एवं सूर्यग्रहनक्षत्रताराणामपि खस्खमण्डलाकारं चिरं वाच्यं, तथाच तत्त्वार्थभाष्यम्-"मुकुटेषु शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैरुज्ज्वलैश्चन्द्रसूर्यग्रहनक्षत्रतारामण्डलैर्यथाखं चिह्नर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति," अत्र 'शिरोमुकुटोपगृहिभिरिति-' मुकुटाग्रभागवर्तिभिः। तथा वहन्तीति पचादित्वादचि वहास्ते एव स्वार्थ कप्रत्ययावहकाः, विमानानां वहका विमानवहकाः, वुणप्रत्यये वा प्राकृतत्वात् हखः, ते च 'क्रमाद' यथासंख्यमेपांपञ्चानामपि चन्द्रआदित्यग्रहनक्षत्रताराणां षोडश षोडश अष्टौ चत्वारः द्वौ च सुरसहस्रा भवन्ति, तथाहि-चन्द्रमसां
॥२३॥ विमानान्याभियोगिकसुरसहस्राः षोडश वहन्ति, एवं सूर्याणामपि पोडश, ग्रहाणामष्टौ, नक्षत्राणां चत्वारः, तारकाणां च द्वाविति । इहायं भावार्थः-तथाविधजगत्खाभाव्यान्निरालम्बनान्यपि चन्द्रादिविमानानि स्वयमेव वहनशीलानि
COLORSC
R
Jain Education in
For Privale & Personal use only
w
ww.jainelibrary.org