SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ एवमेकस्यां दिशि द्वाविंशतिर्लक्षाण्येवमेवापरस्यामपि द्वाविंशतिः, सर्वमीलने च पञ्चचत्वारिंशलक्षयोजनमानं नरक्षेत्र। तत्र नरक्षेत्रे वर्तमाना इमे चन्द्रादिविमाना मेरोः प्रादक्षिण्येन सर्वकालं भ्रमणशीलाः, नरक्षेत्रावहिः पुनश्चन्द्रादिविमाना अर्धप्रमाणाः, इदमुक्तं भवति-नरक्षेत्रान्तर्वर्तिचन्द्रादिविमानानां यद्विष्कम्भायामोचत्वमानं प्रागभिहितं, तदर्द्धविष्कम्भायामोचत्वमानानि नरक्षेत्राहिश्चन्द्रादिविमानानि, तथाहि-चन्द्रमसां विमानान्यायामविष्कम्भाभ्यामुच्चत्वेन च क्रमादष्टाविंशतिश्चतुर्दश चैकपष्टिभागा योजनस्य, एवं सूर्याणां चतुर्विंशतिर्दादश च, ग्रहाणां गव्यूतं गन्यूताध च, नक्षत्राणां गव्यूतस्याद्ध चतुर्थी शश्च, उत्कृष्टस्थितीनां ताराणां पञ्च अर्द्धतृतीयानि च धनुःशतानि, जघन्यस्थितीनामर्द्धतृतीयानि धनुःशतानि पञ्चविंशत्यधिकं धनुःशतं च । तथैते नरक्षेत्रबहिर्वर्त्तिनश्चन्द्रादिविमाना नित्यस्थिताः-सदावस्थानखभावा निश्चला इत्यर्थः॥४३॥ अधुना मेरोः प्रादक्षिण्येन भ्रमतां चन्द्रादीनां गतितारतम्य सामान्येन सर्वेपामेव चन्द्रादीनां समृद्धितारतम्यं मनुष्यलोकगतचलचन्द्रादिविमानवाहकांश्च गाथाद्वयेनाह ससिरविगहनक्खत्ता, तारा हृति हु जहत्तरं सिग्धा । विवरीआ उ महिड्डीअ, विमाणवहगा कमेणेसिं ॥ ४४ ॥ सोलस सोलस अड चउ दो सुरसहसा पुरो य दाहिणओ। पच्छिम उत्तर सीहा, हत्थी वसहा हया कमसो ॥ ४५॥ wain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy