SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्ति ॥२२॥ पणयाललक्खजोअण, नरखेत्तं तत्थिमे सया भमिरा । नरखित्ताउ बहिं पुण, अद्धपमाणा ठिआ निच्चं ॥ ४३॥ व्याख्या-जम्बूद्वीपो धातकीखण्डः पुष्करवरद्वीपार्द्ध चेत्यर्द्धतृतीया द्वीपाः, लवणः कालोदश्चेति द्वौ समुद्रौ, समुदिता हेममयमानुपोत्तराचलपरिक्षिप्तं नरक्षेत्रं, अत्र मनुष्याणां जन्मनो मरणस्य च सम्भवात् , तत्र पञ्चचत्वारिंशत्संख्येषु भरतादिषु क्षेत्रेषु षट्पञ्चाशत्संख्येषु चान्तरद्वीपेषु मनुष्याणां जन्म मरणं च प्रतीतं, समुद्रवर्षधरपर्वतादिषु तु प्रायो जन्म न घटते, मरणं तु संहरणतो विद्यालब्धितो वा तत्र गतानां सम्भवति, नरक्षेत्रात्तु बहिर्जन्ममरणभाजो मनुप्या न भूता न भवन्ति नापि भविष्यन्ति । यद्यपि कश्चिद्देवो दानवो विद्याधरो वा वैरनिर्यातनार्थ बुद्धिमेवं विधत्ते -यथाऽस्मात् स्थानादुत्पाट्य मनुष्यमेनं नरक्षेत्राद्वहिःप्रक्षिपामि, येनायमूर्ध्वशोषं शुष्यन् म्रियतेति, तथापि लोकानभावादेव सा काचिद्बुद्धिर्भूयोऽपि जायते, तथा (तया) संहरत्येव न, संहृत्य वा पुनरानयति, येऽपि जवाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति, तेऽपि तेभ्यो मनुष्यक्षेत्रमागत्यैव म्रियन्ते, तेनार्द्धतृतीयद्वीपसमुद्रपरिमाणमेव नरक्षेत्रं न शेषमिति। तच्चायामविष्कम्भाभ्यां पञ्चचत्वारिंशलक्षा योजनानां ४५०००००, तथाहि-लक्षमेकं समवृत्तो जम्बूद्वीपस्तस्य चैकस्यां दिशि लवणसमुद्रो द्वे, धातकीखण्डश्चत्वारि, कालोदोऽष्टी, पुष्करवरद्वीपार्द्धमप्यष्टौ, ॥२२॥ wain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy