________________
जोअणइगसहिभागा, छपन्नडयाल गाउदुइगद्धं ।
चंदाइविमाणायामवित्थडा अद्वमुच्चत्तं ॥ ४२ ॥ व्याख्या-इह प्रमाणाङ्गुलेन योजनमेकमेकपष्टिभागैय्या विधीयते, ततश्चन्द्रादिविमानानां यथासंख्यं षट्पञ्चाशद्भागादिप्रमाणावायामविस्तारौ भवतः, इदमुक्तं भवति-समवृत्तत्वाचन्द्रविमानानामायामो विस्तारश्च षट्पञ्चाशदेकषभागा योजनस्य, एवं सूर्यविमानानामष्टचत्वारिंशदेकषष्टिभागाः, ग्रह विमानानां द्वे गव्यूते, क्रोशद्वयमित्यर्थः, नक्षत्रविमानानामेकं गव्यूतं, ताराविमानानामर्दू गव्यूतं । सर्वेषां च चन्द्रादिविमानानामुच्चत्वं स्वखायामविष्कम्भाई, तथाहि-चन्द्रमसां विमानान्युच्चैस्त्वेनाष्टाविंशतिरेकपष्टिभागा योजनस्य, सूर्याणां चतुर्विंशतिः, ग्रहाणां गव्यूतं, नक्षत्राणामद्धं गव्यूतं, धनुःसहस्रमित्यर्थः, ताराणां क्रोशचतुर्भागः, पञ्चधनुःशतानीत्यर्थः, इदं चेह ताराणां विमानेष्यायामविष्कम्भोचत्वमानमुत्कृष्टस्थितीनामवसेयं, जघन्यस्थितीनां त्वायामविष्कम्भमानं पञ्च धनुःशतानि, उचत्वं त्वर्द्धतृतीयानि धनुःशतानि, तथाच तत्त्वार्थ भाष्यम्-"सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशः जघन्यायाः पञ्च धनुःशतानि, ४ाविष्कम्भार्द्धवाहल्याश्च भवन्ति सर्वे सूर्यादयो नृलोके इति" ॥४२॥ अधुना मनुष्यक्षेत्रस्य प्रमाणमुपदर्शयन् तद्गतानां 3 मनुष्यक्षेत्रबहिर्वतिनां च चन्द्रादिविमानानां खरूपमाह
GANGACACALCCACCASEX
wain Education inte
For Privale & Personal use only
W
w.jainelibrary.org