________________
संग्रहणी
वृत्तिः
॥२१॥
मया पुण, लवणे जे जोइसविमाणा ॥१॥" ततो न तत्र शिखान्तश्चरतां ज्योतिष्कविमानानामुदकेन व्याघातः। शिखाविभागस्त्वेवम्-"पंचाणउइसहस्से,गोतित्थं उभयओवि लवणस्स। जोयणसयाणि सत्त उ, उदगबुड्डी उभयओवि ॥१॥ दसजोअणसाहस्सा, लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा, सहस्समेगं च ओगाढा ॥२॥ देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले । अइरेगं अइरेगं, परिवड्डइ हायए वावि ॥३॥ अत्रायं भावार्थो-नद्यादि प्रवेशमार्गरूपो नीचरतरो भूप्रदेशो गोतीर्थमिव गोतीर्थ, तच्च लवणे उभयतः प्रत्येकं पञ्चनवतियॊजनसहस्राः, तत्रादौ जम्बूद्वीपधातकीखण्डवेदिकयोः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गुलसङ्ख्यभागः, ततः परं क्रमादध ऊध्वं च तथा कथञ्चित्प्रदेशानां हानिवृद्धिश्च यथा पञ्चनवतिसहस्रान्ते समभूतलापेक्षयाऽधोऽवगाहो योजनसहस्रं तदुपरि जलवृद्धिश्च सप्तयोजनशतानि, ततः परं मध्यभागे दशयोजनानां सहस्राणि रथचक्रवद्विस्तीर्णा भूतलसमजलपट्टादूचं षोडशसहस्राण्युच्चा सहस्रमेकमधोऽवगाढा लवणशिखा भवति, तस्याश्चोपर्यहोरात्रमध्ये द्वौ वारौ किञ्चिन्यूने द्वे गव्यूते जलमधिकमधिकं पातालकलशगतवायोः क्षोभादुपशमाच वर्द्धते । हीयते वेति । तथा 'रम्याः' रमणीयाश्चक्षुर्मनःप्रह्लादकत्वात् व्यन्तरसत्कनगरेभ्यश्चासंख्यातेभ्योऽपि सकाशात् संख्ययगुणाः, 'इमे' प्रत्यक्षोपलभ्या ज्योतिष्कविमाना भवन्ति ॥४१॥ सम्प्रति चन्द्रादिविमानानां प्रमाणमाह
COCOMRAKOCROCCORROCES
॥२
Jain Education inter
For Privale & Personal use only
Niw.jainelibrary.org