________________
अद्धकविट्ठागारा, फलिहमया रम्मजोइसविमाणा।
वंतरनगरेहितो, संखिजगुणा इमे हुंति ॥ ४१॥ B व्याख्या-सर्वेषामपि चन्द्रादिज्योतिष्काणां विमाना 'अर्द्धकपित्थाकाराः' अर्कीकृतकपित्थफलसंस्थानाः, विमानश
ब्दः पुनपुंसकः, आह-यदि सर्वाण्यपिज्योतिष्कविमानान्यर्द्धकपित्थाकाराणि, ततश्चन्द्रसूर्यविमानान्यतिस्थूलत्वादुदयास्तसमयतिर्यपरिभ्रमणकालेषु तथा कि नोपलभ्यन्ते ? कामं शिरस उपरि वर्तमानानि वर्तुलान्युपलभ्यन्तां, अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया प्रतिभासनात् , उच्यते, इहाईकपित्थाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि, किन्तु विमानानां पीठानि, तेषां चोपरि चन्द्रादीनां प्रासादाः, ते च तथा कथञ्चियवस्थिता यथा पीढ़ः सह प्रायो वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभातीति न कश्चिद्दोषः, यदाह विशेषणवत्यां साक्षेपं क्षमाश्रमणः “अद्धकविठ्ठागारा, उदयत्थमणमि किह न दीसंति ? ससिसूराण विमाणा, तिरियक्खित्ते ठिआई च ॥१॥ उत्ताणद्धकविठ्ठागारं पीढं तदुवरि पासाओ । बट्टालेखेण तओ, समवर्ट दूरभावाओ॥२॥ तथा 'स्फटिकमयाः' सामान्येन स्फाटिकाः, लवणे तु तथाजगत्वाभाव्यादुदकस्फाटकस्फटिकमयाः, यत्सूर्यप्रज्ञप्तिनियुक्तिः "जोइसिअविमाणाई, सवाई हवन्ति फालिहमयाई । दगफालिआ
50505455555
wain Education in
For Privale & Personal use only
Maw.jainelibrary.org