SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education %%%%% व्याख्या – समान्मेरुमध्यस्थिताष्टप्रदेशात्मकरुचकसमानाद्भूतलादष्टाभ्यो दशोनेभ्यो योजनशतेभ्य आरभ्य उपरि - दशोत्तरे योजनशते ज्योतिष्कास्तिष्ठन्ति ॥ ३८ ॥ एषामेवावस्थानविभागमाह - तत्थ रवी दसजोअण, असीइ तदुवरि ससी उ रिक्खे | अह भरण साइ उवरि, वहि मूलोऽभिंतरे अभिई ॥ ३९ ॥ व्याख्या-‘तत्र' तस्मिन् दशोत्तरे योजनशते ज्योतिश्चक्रस्य सर्वाधस्तनतलादूर्ध्वं दशभिर्योजनैः समभूतलापेक्षयाऽष्ट- | भिर्योजनशतैरित्यर्थः । तथा 'रिक्खेसु'त्ति सर्वेषामपि नक्षत्राणामधो भरणी नक्षत्रं चारं चरति । एवं स्वातिः सर्वेषा - मुपरि, मूलं सर्वेषां वहिः, अभिजित् सर्वेषामभ्यन्तर इति । अन्यत्र तु यद्यपि सामान्येन 'सवभितर भीई' इत्याद्युक्तं, तथापि तदपि नक्षत्रमण्डलापेक्षया द्रष्टव्यं । तथाच जम्बूद्वीपप्रज्ञप्तिः - "जंबूद्दीवेणं भंते ! दीवे अट्ठावीसाए नक्खत्ताणं | कयरे नक्खत्ते सवभितरं चारं चरइ ? कयरे नक्खत्ते सववाहिरं चारं चरइ ? कयरे नक्खत्ते सङ्घहेट्ठिलं चारं चरइ ? कयरे नक्खत्ते सव्युवरिलं चारं चरइ ? गोयमा ! अभीई नक्खत्ते सवभितरं चारं चरइ, मूलो सङ्घवाहिरं चारं चरइ, भरणी सबहेट्ठिलं चारं चरइ, साई सव्युवरिल्लं चारं चरइ " इति । अत्र केचिदाहुः - “ शतानि सप्त गत्योर्ध्व, योजनानां । | भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ १ ॥ तारकापटलाद्गत्वा योजनानि दशोपरि । सूर्याणां | पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २ ॥ चत्वारि तु ततो गत्वा, नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि, For Private & Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy