________________
CACANCCCRACADACK
पण्णा चत्ता कमसो, लक्खा भवणाण दाहिणओ ॥ २१ ॥ चउचउलक्खविहणा, तावइआ चेव उत्तरदिसाए ।
सवेवि सत्त कोडी, बावत्तरि हुंति लक्खा य ॥ २२ ॥ व्याख्या-'दक्षिणतो' दक्षिणस्यां दिशि असुरकुमाराणां चतुस्त्रिंशद्भवनानां लक्षा भवन्ति, एवं नागानां चतुश्चत्वारिंशल्लक्षाः,सुपर्णानामष्टत्रिंशलक्षाः, विद्युदग्निद्वीपउदधिदिकुमाराणां पञ्चानामपि प्रत्येकं चत्वारिंशल्लक्षाः, वायूनां पञ्चाशल्लक्षाः, स्तनितानां चत्वारिंशल्लक्षाः। तथा यावत्य एव दक्षिणस्यां दिशि भवनलक्षा उक्तास्तावत्य एव चतुर्भिश्चतुमिर्लक्षविहीनाः-ऊना उत्तरस्यां दिशि भवन्ति, तथाहि-असुराणां त्रिंशत् नागानां चत्वारिंशत् सुपर्णानां चतुस्त्रिंशत् विद्युदग्निद्वीपउदधिदिक्कुमाराणां पञ्चानामपि प्रत्येकं पट्त्रिंशत् वायूनां षट्चत्वारिंशत् स्तनितानां पत्रिंशत्लक्षाः। दिग्द्वयभवनसङ्ख्यामीलने त्वसुराणां निकाय चतुःपष्टिरेवं नागानां चतुरशीतिः सुपर्णानां द्विससतिः विद्युदग्निद्वीपउदधिदिक्कुमाराणां पञ्चानामपि प्रत्येकं षट्सप्ततिः वायूनां पण्णवतिः स्तनितानां पट्सप्ततिर्भवनलक्षाः। एवं दशखपि निकायेषु सम्पिण्ड्य चिन्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च लक्षा भवन्ति ७७२०००.०॥ २१-२२ ॥ सम्प्रति भवनानां स्थानं प्रमाणं चाह
Jain Education
a
l
For Private & Personal use only
IAPT