SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जलपह तह अमिअगई, मिअवाहण दाहिणुत्तरओ ॥ १९ ॥ वेलंबे अ पहंजण, घोस माहाघोस एसिमन्नयरो । जंबुद्दीवं छत्तं, मेरुं दंडं पहू काउं ॥ २० ॥ व्याख्या-'दाहिणुत्तरउत्ति' मध्यवर्त्यपि सर्वत्र सम्बध्यते । ततो दशखपि युगलेष्वाद्या दक्षिणस्यां द्वितीया उत्तरस्यां दिशि इन्द्रास्तथाहि-दक्षिणदिग्वर्तिनामुत्तरदिग्वर्तिनां चासुरकुमाराणां क्रमाचमरो वलिश्चेन्द्रः १। नाग-1 कुमाराणां धरणो भूतानन्दः २ । सुपर्ण (सुवर्ण) कुमाराणां वेणुदेवो वेणुदालिः ३ । विद्युत्कुमाराणां हरिकान्तो हरिस्सहः। अग्निकुमाराणामग्निशिखोऽग्निमाणवः ५। द्वीपकुमाराणां पुण्यो वशिष्ठः ६ । उदधिकुमाराणां जलकान्तो जलप्रमः ७ । दिक्कुमाराणाममितगतिरमितवाहनः ८ वायुकुमाराणां वेलम्बः प्रभञ्जनः ९ । स्तनितकु-हा माराणां घोषो महाघोष इति १० । एषां च विंशतेरिन्द्राणामन्यतरः कोऽपि जम्बूद्वीपं छत्रं मेरं च दण्डं कर्तुं प्रभुः-समर्थः, कृत्वा च धारयेद्वामहस्तेन, नच कश्चित्तस्य शरीरायासः । एषां च सर्वेषामपीन्द्राणां साधारणा शक्तिः संक्षेपात् सूत्रकृतोक्ता व्यासात्तु देवेन्द्रस्तवादवसेया-यथा, "जाव य जम्बुद्दीवो, जाव य चमरस्स चमरचञ्चा उ । असुरेहिं असुरकन्नाहि, अस्थि विसओ भरेउं जे ॥१॥ तं चेव समइरेगं, बलिस्स वइरोअणस्स बोद्धछ । असुरेहिं| SA lain Education inte For Privale & Personal use only D w .jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy