________________
भगवत्यां चतुर्थे शते-"आइदुग तिभागूणा, पलिआ धणयस्स होंति दो चेव। दो सतिभागा वरुणे, पलिअमहावच्चदेवाणं ॥१॥ यदि च या पूर्वपूर्वप्रस्तटे उत्कृष्टा सा उत्तरोत्तरे जघन्या, तर्हि त्रयोदशे प्रस्तटे एकं सागरोपममेकादश च त्रयोदशभागाः सागरोपमस्य जघन्या स्याद् , एवं च व्यक्तः सिद्धान्तविरोधः, तस्मात् सर्वत्र सौधर्म जघन्या स्थितिः पल्योपम, लोकपालानां तूक्तरूपा मध्यमेति सर्व सुस्थं। आगमगाथे चात्र-"पलिओवमं जहन्ना, दो तेरसभाग उदहिनामस्स । उक्कोसठिई भणिआ, सोहम्मे पत्थडे पढमे ॥१॥ एवं दुगवुड्डीए, नेअचं जाव अंतिमं पयरं । भागेहिं तओ करणं, जा तेरसमे दुवे अयरा ॥२॥" एवमीशानेऽपि, नवरं सर्वत्र जघन्यायामुत्कृष्टायां च स्थितौ किञ्चिदाधिक्यं वाच्यं ॥ १५॥ सम्प्रति शेषदेवलोकेषु प्रतिप्रतरं स्थितिपरिज्ञानाय करणमाह
सुरकप्पठिइविसेसो, सगपयरविहत्तइच्छसंगुणिओ।
हिडिल्लठिईसहिओ, इच्छिअपयरंमि उक्कोसा ॥ १६ ॥ सुरकल्पयोरुपलक्षणात्कल्पकल्पातीतरूपदेवलोकयोः पूर्वोत्तरयोर्ये उत्कृष्ट स्थिती तयोविश्लेषः अन्तरं, पूर्वकल्पोत्कृष्टस्थितिरुत्तरकल्पोत्कृष्टस्थितेरपनीयत इत्यर्थः । विश्लेवे च सत्यवशिष्टं यल्लब्धं, तदपि सुरकल्पस्थितिविश्लेष १ यथापत्यदेवानां लोकपालपुत्रस्थानीयानां पल्योपममायुः । २ सागरोपमस्य ।
OCCASCOCCCCCCCESEX
Jain Education Interie
For Privale & Personal use only
aw.jainelibrary.org