________________
संग्रहणी-
॥११॥
गुणिता च सती, किं भवति ? प्रतरेषत्कृष्टस्थितयः, तथाहि-सौधर्मे द्वे सागरोपमे उत्कृष्टा स्थितिरिति द्विको वृत्ति. प्रियते, तस्य खप्रतरत्रयोदशभिर्भागो हियते, स च भागं न प्रयच्छतीति लब्धौ सागरोपमस्य द्वौ त्रयोदशभागी, प्रथमप्रतरे च स्थितिआतुमिष्टेयकेन गुण्यते, एकेन च गुणितं तदेव भवतीत्यागता प्रथमे प्रतरे उत्कृष्टा स्थितिद्वौं सागरोपमस्य त्रयोदशभागौ। द्वितीयप्रतरजिज्ञासायां तु द्वौ भागौ द्वाभ्यां गुण्येते जाताश्चत्वारस्त्रयोदशभागाः सागरोपमस्य, एतावती द्वितीये प्रतरे उत्कृष्टा स्थितिः। एवं प्रतिप्रतरं भागद्वयवृद्ध्या तृतीये षट् यावत्सप्तमे चतुर्दश भागास्त्रयोदशभिश्च भागैः सागरोपमस्य करणे लब्धमेकं सागरोपममेकश्च त्रयोदशभागः सागरोपमस्य, एवं यावत्रयोदशे प्रतरे शुभशुभकान्तसौधर्मावतंसकादिषु विमानेषु द्वे सागरोपमे उत्कृष्टा स्थितिः। स्थापनाचेयं(१)एवं सौधर्मप्रतरेषत्कृष्टां स्थितिमभिधाय जघन्यां दर्शयति-'सर्वत्र' त्रयोदशखपि प्रतरेषु जघन्यतः पूर्णमेकमेव पल्योपमं भवति। एवं शेषकल्पेष्वपि या यत्र जपन्या स्थितिरभिहिता, सा तत्र कल्पे सर्वेष्वपि प्रतरेष्वेकैव वक्तव्या, न पुनर्यथा केचि-18 द्याख्यानयन्ति-या पूर्वपूर्वप्रतरे उत्कृष्टा सा उत्तरोत्तरप्रतरे जघन्येति, एवंविधविशेषस्य क्वचिदप्यनभिधानात् । किञ्च-सर्वस्यापि कल्पेन्द्रस्य लोकपालानां च खखकल्पान्तिमप्रतरे विमानानि भवन्ति, यदुक्तं देवेन्द्रकेपु-"कप्पस्स
पता॥११॥ अन्तपयरे, नियकप्पवडिंसया विमाणाओ। इंदनिवासा तेसिं, चउहिसिं लोगपालाणं ॥१॥" ततः सौधर्मे लोकपालानां विमानानि त्रयोदशे प्रस्तरे, तेषां च स्वखविमानाधिपयेऽपि त्रिभागोनपल्योपमद्वयादिकैव स्थितिः। तथाच
Jain Education in
For Privale & Personal use only
W
w.jainelibrary.org