SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- पञ्चपञ्चाशत्पल्योपमान्युत्कृष्टा स्थितिरिति ॥१२॥ उक्ता वैमानिकदेवीनां स्थितिः, सम्प्रति देवीप्रस्तावादसुरादी न्द्राणामग्रमहिषीसंख्यामाह॥१०॥ पणछच्चउचउअट्ट य, कमेण पत्तेअमग्गमहिसीओ। असुरनागाइविंतरजोइसकप्पडुगिन्दाणं ॥ १३॥ 2 अग्रमहिण्यः पट्टराश्य इव सर्वान्तःपुरप्रधानभूता देव्यः, ता असुरेन्द्रादीनां यथासंख्यं पञ्चादिसंख्याः प्रत्येकमे कैकमिन्द्रं प्रति भवन्ति । तथाहि-असुराधिपतेश्चमरस्य वलेश्च प्रत्येकं पञ्च पञ्चाग्रमहिष्यः, एवं नागादिनवनिकाये६न्द्राणां धरणभूतानन्दप्रभृतीनां पट् षद्, व्यन्तरेन्द्राणां कालमहाकालादीनां चतस्रः चतस्रः, ज्योतिष्केन्द्राणां च चन्द्रार्काणां चतस्रः चतस्रः, सौधर्मेशानकल्पद्विकेन्द्रयोः शक्रेशानयोरष्टावष्टाविति। उपरितनकल्पेषु तु न देव्यः उत्पद्यन्ते, नापि परिगृहीता भवन्ति, केवलं तन्निवासीन्द्राणां प्रविचारणाभिप्राये सत्यधस्तनकल्पद्वयदेव्य एवापरिगृहीता उपभोगायोपतिष्ठन्त इति न तेषामग्रमहिषीसम्भवः॥१३॥ अधुना प्रतिप्रतरं स्थिति विवक्षुः सौधर्मादिषु प्रतरसंख्यां तावदाह दुसु तेरस दुसु बारस, छप्पण चउ चउ दुगे दुगे अ चऊ । Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy