________________
SSC
तथाहि-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः माहेन्द्रे द्वे साधिके ब्रह्मलोके सप्त लान्तके दश शुक्र चतुर्दश सहस्रारे सप्तदश, ततः परमानतादिष्वेकैकं सागरोपममधिकं भवति, यावदनुत्तरचतुष्के विजयवैजयन्तजयन्तापराजितरूपे एकत्रिंशत् सागरोपमाणि, सर्वार्थसिद्धे पुनर्जघन्या स्थिति स्ति, अजघन्योत्कृष्टायास्त्रयस्त्रिंशत्सागरोपमरूपाया एव स्थितेस्तत्र भावादिति ॥ सम्प्रति वैमानिकदेवीनां जघन्यामुत्कृष्टां च स्थितिमाह
परिगहिआणिअराण य, सोहम्मीसाणदेवीणं ॥ ११ ॥ पलिअं अहिअं च कमा, ठिई जहन्ना इओ अ उक्कोसा।
पलिआइं सत्त पन्नास, तहय नव पञ्चवन्ना थ(य) ॥ १२ ॥ इह वैमानिकदेवीनामुत्पत्तिः सौधर्मेशानयोरेव, ताश्च द्विधा-परिगृहीताः कुलाङ्गना इव, अपरिगृहीताश्च वश्या इव, तत्र परिगृहीतानामितरासां च सौधर्मदेवीनामीशानदेवीनां च कमात्पल्योपममधिकं च जघन्या स्थितिः, तथाहि-सौधर्म परिगृहीतानां अपरिगृहीतानां च देवीनां पल्योपमं जघन्यमायुः, ईशाने तूभयानां तदे
वाधिकमिति । इतश्चोर्ध्वमुत्कृष्टा स्थितिर्वक्तव्या अत आह-'पलिआई सत्त पन्नासेत्यादि' सौधर्मे परियनाहीतानां सप्त अपरिगृहीतानां च देवीनां पञ्चाशत्पल्योपमानि, तथा ईशाने परिगृहीतानां नव अपरिगृहीतानां
REACTIONARY
wain Education Intan
For Privale & Personal use only
jainelibrary.org