________________
संग्रहणी
दाहिणदिवड्डपलिअं, उत्तरओ हुँति दोन्नि देसूणा ।
वृत्तिः तद्देविमद्धपलिअं, देसूणं आउमुक्कोसं ॥४॥ इह तावत्तत्र तत्र पल्योपमसागरोपमाभ्यामनेकधा प्रयोजनदर्शनात् किञ्चित्तत्खरूपं निरूप्यते-तत्र धान्य-12 पल्यवत्पल्यस्तेनोपमा यस्य कालप्रमाणस्य तत्पल्योपमम् , तत्रिधा-उद्धारपल्योपमम् अद्धापल्योपमं क्षेत्रपल्योपमं च, तत्र वालाग्राणां तत्खण्डानां वा प्रतिसमयमुद्धरणमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं १ अद्धा-कालः स च प्रस्तावात् वालाग्राणां तत्खण्डानां वोद्धरणे प्रत्येकं वर्षशतलक्षणस्तत्प्रधानमद्धापल्योपमम् २ क्षेत्रमाकाशप्रदेशरूपं तत्प्रधानं क्षेत्रपल्योपमम् ३, पुनरेकै द्विधा-बादरं सूक्ष्मं च, तत्रायामविस्ताराभ्यामवगाहेन चोत्सेधाङ्गलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच परिधिना किञ्चिन्यूनपड़ागाधिकयोजनत्रयमानःपल्यो मुण्डिते शिरसि एकेनाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तैः प्रचयविशेषान्निविडतरमा-15 कर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिन दहति, वायु पहरति, जलं न कोथयति, ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति, तावान्कालः, संख्येयसमयमानो बादरमुद्धारपल्योपमं, एतेषां च दश कोटिकोट्यो बादरमुद्धारसागरोपमं, महत्त्वात् सागरेण समुद्रेणोपमा यस्येति कृत्वा, बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणं, न पुनरेतत्प्ररूपणेऽन्यद्वि
॥
५
॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org