________________
हयगजरथमहिषपदातिगन्धर्वनाट्यभेदात् , केवलं वैमानिकेषु सौधर्मादिष्वच्युतान्तेषु महिषस्थाने वृषभ इति वक्तव्यं, । तदधिपतयः सैन्यनायकाः, तत्राद्यानि पञ्चानीकानि संग्रामाय, गन्धर्वनाट्यानीके तूपभोगाय, प्रकीर्णकाः पौरजनपदादिप्रकृतिसदृशाः ८ आ समन्तादभियुज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्या दासप्रायाः ९ किल्बिषमशुभं कर्म तद्वन्तः किल्बिपिकाचाण्डालप्रायाः, व्यन्तरज्योतिष्कनिकाययोस्तु, तथाजगत्स्वाभाव्यात् त्रायस्त्रिंशलोक
पालवर्जाः शेषा अष्टावेव भेदा इति । तदेवभेदभिन्नेषु देवेषु प्रथमतो भवनपतीनां जघन्यां स्थितिमुपदर्शयन् गायोउत्तरार्धमाह
दसवाससहस्साइं, भवणवईणं जहन्नठिई ॥२॥ दशवर्षसहस्राणि 'भवनपतीनां भवनवासिदेवदेवीनां जघन्या स्थितिभवति, जघनमधस्तानिकृष्टो भागस्तत्र भवं जघन्यं रोममलादि, तच किल स्तोक, तद्वदियमपि लक्षणया जघन्या सर्वस्तोकेत्यर्थः ॥२॥ अथ भवनपतीनामेवोत्कृष्टां स्थिति गाथाद्वयेनाह
चमरवलिसारमहियं, तद्देवीणं तु तिन्नि चत्तारि । पलिआई सवाई, सेसाणं नवनिकायाणं ॥३॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org