________________
संग्रहणी-विमानानि तेषु भषा वैमानिकाः, ते च द्विविधाः-कल्पोपपन्नाः कल्पातीताच, तत्र कल्पः स्थिति तं वृत्तिः ,
13मर्यादेत्येकार्थाः, स च इन्द्रतत्सामानिकादिव्यवस्थारूपस्तं प्रतिपत्राः कल्पोपपन्नाः सौधर्मईशानसनत्कुमारमाहेन्द्र-18 ॥४॥
ब्रह्मलोकलान्तकशुक्रसहस्रारआनतप्राणतआरणअच्युतनिवासिनः, परतस्तु कल्पातीता ग्रैवेयकानुत्तरविमानवासिनः, सर्वेषामपि तेषामहमिन्द्रत्वात् । इह भवनपतिवैमानिकनिकाययोःप्रत्येकं देवा दशविधास्तद्यथा-इन्द्राः सामानिकाः त्रायस्त्रिंशाः पार्षद्या आत्मरक्षाः लोकपालाः अनीकाधिपतयः प्रकीर्णका आभियोग्याः किल्बिषिकाच, तत्रेन्द्राः परमैश्चर्यतः सर्वाधिपतयः १ इन्द्रत्वमन्तरेण शेषे द्युतिविभवादी समाने भवाः सामानिका इन्द्राणाममात्यपितृगुरूपाध्यायवत्पूज्याः, परं तेऽपीन्द्रान खामित्वेन प्रतिपन्नाः २ त्रयस्त्रिंशदेव त्रयस्त्रिंशत्सङ्ख्याका एव त्रायस्त्रिंशाः प्रज्ञादित्वात् , (प्रज्ञादिभ्योऽण ७-२-१६५) खार्थेऽणि प्रायोऽव्ययस्य (७-४-६५) इति प्रायोग्रहणादन्त्यखरादिलोपः, ते पुनरिन्द्राणां राज्यभरचिन्तादिशान्तिकपौष्टिकादिकर्मकारिणो मत्रिपुरोहितस्थानीयाः ३ पर्षदि साधवः पार्षद्याः पर्षदो ण्यणाविति(७-१-१८)ण्यः देवराजानां मित्रप्रायाः ४ इन्द्राणामात्मानं रक्षन्तीत्यात्मरक्षाः कर्मणोऽण (५-१-७२) ते ह्यपायाभावेऽपि स्थितिपरिपालनाय प्रीत्युत्पत्तये चेन्द्राणां परितो दृढनिबद्धसुभटोचितपरिकरा धनु-12 रादिप्रहरणव्यग्रपाणयः खखामिन्यस्तनिश्चलदृष्टयः परेषां क्षोभमापादयन्तोऽङ्गरक्षका इव तिष्ठन्ति ५ लोकान्पालयन्तीति लोकपालाः आरक्षका इव प्रभूपदिष्टदेशरक्षणपराश्चौरोद्धरणकरा इवापन्यायकारिनिग्रहपराश्च ६ अनीकं सप्तधा,
CAMEREKANGRECORRECबर
॥४
॥
lain Education inte!
For Privale & Personal use only
Dilaw.jainelibrary.org