________________
तीमाना पञ्चशतीमाना च साता, ततोऽत्यल्पमेधसः संक्षिप्तरुचीन्मादृशाननुकम्पयद्भिः पूज्यश्रीचन्द्रसूरिभिस्ततो|ऽपि सोऽर्थोऽतिसंक्षिप्यास्यां संग्रहण्यामभिहित इति परम्परया सर्वज्ञमूलमेवैतत् प्रकरणमित्यवश्यमुपादेयमवदात-18 बुद्धीनामिति । तत्र यथोद्देशं निर्देश इत्यादी सुराणां स्थितिर्वक्तव्या, ते च चतुर्विधास्तद्यथा-भवनवासिनो १ व्यन्तरा २ ज्योतिष्का ३ वैमानिकाच ४ । तत्राद्या दशविधास्तद्यथा-असुरनागसुपर्णविद्युअग्निद्वीपउदधिदिपवनस्तनितकुमाराः, इह यद्यपि कायमानसन्निभेषु परमरामणीयकभूमिष्यावासापरनामसु महामण्डपेषु प्रायोऽसुरकुमाराः परिवसन्ति, कदाचिदेव तु भवनेषु, शेषास्तु-नागकुमारादयो भूना भवनेषु, कदाचिच्चावासेपु, तथापि सामा
न्येन सर्वेपि भवनवसनशीला भवनवासिनः। तथा विविधमन्तरं वनान्तरादिकमाश्रयतया येषां ते व्यन्तराः, तथाहि 8/-ते तेषु वनान्तरेषु शैलान्तरेषु कन्दरान्तरेषु च वसन्तीति प्रतीतमेव, यद्वा भृत्यवच्चक्रवांद्याराधकत्वेन विगतमन्तरं-विशेषो मनुष्येभ्यो येषां ते तथा, वनानामन्तरेषु भवाः पृषोदरादित्वात् मागमे वानमन्तरा इत्यपि, ते
चाष्टविधाः तद्यथा-पिशाचा भूता यक्षा राक्षसाः किन्नराः किंपुरुषाः महोरगा गन्धर्वाश्च, तथा द्योतनं ज्योतिरौजाणादिकत्वात् तदेषामस्तीति ब्रीह्यादिभ्य (ब्रीह्यादिभ्यस्तौ ७-२-५) इति इकप्रत्यये इकारलोपे च ज्योतिष्काः, दाते च पञ्चविधास्तद्यथा-चन्द्राः सूर्या ग्रहा नक्षत्राणि तारकाच, तथा विशिष्टपुण्यैर्जन्तुभिर्मान्यन्ते उपभुज्यन्त इति
१ तृणकुटिसदृशेषु । २ बाहुल्येन ।
RECORRECRegAR
lain Education
For Privale & Personal use only
Kiraw.jainelibrary.org