SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ संग्रहणी-1 उत्पद्यन्ते तेभ्यश्च्यवन्ते चेति, तथा गमो गतिः आगमनमागतिर्गमश्चागमनं चेति, सर्वेषां देवादीनां गतिमागति च वक्ष्ये इत्यर्थः, यथा-के जीवा देवादिषु गच्छन्ति देवादयो वा च्युताः केषु जीवेष्वागच्छन्तीति । तदेवमिह मुख्यतया नवार्थाधिकाराः, तद्यथा-स्थितिः भवनानि अवगाहना उपपातविरहकालः च्यवनविरहकालः एकसमयोपपातसङ्ख्या एकसमयच्यवनसङ्ख्या गतिः आगतिश्चेति, अत एव सुरनारकनरतिर्यग्भेदाचतुर्गुणः, नरतिरश्चोभवनाभावाच्च द्वयोनाः सन्तश्चतुस्त्रिंशत् । शेषं वर्णचिह्नलेश्यादिकं चशब्दाक्षिप्तमस्यां संग्रहण्यामभिधेयं । प्रयोजनं तु द्विधा-कर्तुः श्रोतुश्च, पुनरेकै द्विधा-अनन्तरं परम्परं च, तत्र कर्तुरनन्तरं प्रपोजनं सत्त्वानुग्रहः, परम्परं तु निःश्रेयसावाप्तिः, सत्त्वानुग्रहप्रवृत्ती हि परम्परया परमपदमासादयति-सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानांस प्राप्नोत्यचिराच्छिवम् ॥१॥श्रोतुरनन्तरं देवादिस्थित्यादिज्ञानं,परम्परं तु तस्यापि शिवावाप्तिः,उक्तंचसम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः। क्रियासक्ता अविघ्नेन, गच्छन्ति परमांगतिम्॥१॥ सम्बन्धोऽपि द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तकानुसारिणः प्रति यथा-वचनरूपं प्रकरणमुपायस्तज्ज्ञानमुपेयं, गुरुपर्वक्रमलक्षणस्तु श्रद्धानुसारिणःप्रति यथा-आदी भगवता वर्द्धमानखामिना देवादिस्थित्याद्यर्थोऽभिहितस्ततः सुधर्मखामिना द्वादशाङ्गयां सूत्रतया निवद्धस्तत आर्यश्यामादिभिः प्रज्ञापनादिषु उद्धृतस्तेभ्योऽपि जिनभद्रगणिक्षमाश्रमणेन संग्रहण्यामवतारितः, सा च यद्यपि न गुर्वी नापि लध्वी, तथाप्यन्यान्यगाथाप्रक्षेपतो यावदधुना किञ्चिदूनचतुःश Jain Education inm II hal For Privale & Personal use only Gllww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy