________________
कतिर्यग्नरामरभवेषु शृङ्खलाबद्धा इव वर्तन्ते जन्तवो यया कर्मपरिणत्या सा स्थितिःआयुर्जीवितमित्येकाथोः, भवन्ति वर्तन्ते देवादय एग्विति भवनान्यालयाः, अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना शरीरं, स्थितिभवनावगाहनाः, चशब्दाद्वर्णचिह्नादिकं च वक्ष्ये, तथा 'नृ नये' नृणन्ति तथाविधद्रव्यक्षेत्रादिसामग्रीमवाप्य स्वर्गापवर्गादिहेतुसम्यग्नयविनयपरा भवन्तीत्यचि नरा मनुष्याः, तिरस्तिर्यगञ्चन्ति गच्छन्ति यदि वा तिरोहिताः स्वकर्मवशवर्तिनः सर्वासु गतिषु गच्छन्त्युत्पद्यन्त इति तिर्यश्चः, नराश्च तिर्यञ्चश्च नरतियञ्चस्तेषां, पूर्वोक्तस्थितिभवनावगाहनानां तु मध्यात्, ‘विना भवनं' इति भवनानामनियतत्वात् भवनद्वारं विमुच्य शेषे स्थित्यवगाहने वक्ष्ये, नरतिरश्चामायुःप्रमाणं देहप्रमाणं च वक्ष्यामीत्यर्थः । तथा 'उववायचवणविरहं 'ति उपपतनमुपपात उत्पत्तिर्जन्मेतियावत् , च्यवनमुद्वर्तनं मरणमिति पर्यायाः, तयोविरहमपान्तरालकाललक्षणं वक्ष्ये । अत्रोपपातच्यवनविरहद्वारद्वयं वक्ष्यमाणानि च संख्यादिद्वाराणि विशेषानभिधानात्सुरनरनारकतिरश्चामविशेषेण द्रष्टव्यानि । तेनायमर्थः-चतसृपु देवादिगतिषु यथासम्भवमेकस्मिन् देवादावुत्पन्ने च्युते वा पुनः कियता कालेनान्यो देवादिरुत्पद्यते च्यवते चेति ? तथा संख्यानं संख्या गणनमियत्तेत्यर्थस्तां, कथंभूतां ? समयः परमसूक्ष्मः काल स्तेन निवृत्ता| सामयिकी एकेन समयेन सामयिकी एकसामयिकी तां, उपपातच्ययनयोरिहापि सम्बन्धादुपपातच्यवनविषयामेकसामयिकी सङ्ख्यां चतुर्णामपि देवादीनां वक्ष्ये, यथा कियन्तः खल्वेकस्मिन् समये देवादिषु प्रत्येकं देवादय |
lain Education in
For Privale & Personal use only
A
w.jainelibrary.org