SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ शिष्टं फलमस्तीति, एवं वादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं, तथा एकैकं वालाग्रमसंख्येयानि खण्डानि । | कृत्वा पूर्ववत्पल्यो भ्रियते, तानि च खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनश्छद्मस्थो यदतीव सूक्ष्मं पुद्गलद्रव्यं । चक्षुषा पश्यति, तदसंख्येयभागमात्राणि, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि, वादरपर्याप्तपृथिवीकायिकशरीरतुल्यानीति वृद्धाः, ततः प्रतिसमयमेकैकखण्डापहारेण सकलो निर्लेपनाकालः संख्येयवर्षकोटीप्रमाणः सूक्ष्ममुद्धारपल्योपम, तद्दशकोटीकोट्यः सूक्ष्ममुद्धारसागरोपमम् , आभ्यां च सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते । तथा वर्षशते वर्षशते अतिक्रान्ते पूर्वोक्तपल्यादेकैकवालाग्रापहारेण निर्लेपनाकालः संख्येयवर्षकोटीमानो बादरमद्धापल्योपमं, तद्दशकोटीकोव्यो बादरमद्धासागरोपमं, तथैव वर्षशतेन २ एकैकवालाग्रासंख्येयतमखण्डापहारेण निर्लेपनाकालोऽसंख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपम, तद्दशकोटीकोट्यःसूक्ष्ममद्धासागरोपम, तद्दशकोटीकोट्योऽवसर्पिणी एतावत्प्रमाणा उत्सर्पिणी अपि, उत्सर्पिण्योऽनन्ताः पुद्गलपरावतः, अनन्ताः पुद्गलपरावर्ताः अतीताद्धा तथैव अनागताद्धापि, आभ्यां च सूक्ष्माद्धापल्योपमसागरोपमाभ्यां सुरनारकनरतिरश्चां कर्मस्थितिर्भवस्थितिः कायस्थितिश्च मीयते । तथा प्राग्वत् पल्याद्वालाग्रस्पृष्टनमःप्रदेशानां प्रतिसमयमेकैकापहारेण निर्लेपनाकालोऽसंख्ययोत्सर्पिण्यवसर्पिणीमानो बादरं क्षेत्रपल्योपमं, तद्दशकोटीकोट्यो बादरं क्षेत्रसागरोपमं, तथैवासंख्यातखण्डीकृतवालाः स्पृष्टानामस्पृष्टानां च नमःप्रदेशानां प्रति Jain Education insol For Privale & Personal use only lww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy