________________
SACROCTORRECEMCHOREOGROLOGics
दिट्टी दंसण नाणे, जोगुवओगोववायचवणठिई।
पजत्ति किमाहारे, सन्नी गईआगई वेए ॥ २७३ ॥ व्याख्या-संक्षिप्ततरा तु संग्रहणिरियं-शरीरादिचतुर्विंशतिद्वारात्मिका । तत्र शीर्यत इति शरीरं, तश्च पञ्चधा, औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, एषां कारण (१) प्रदेशसंख्या (२) खामि (३) विषय (४)प्रयोजन (५) प्रमाणा (६) ऽवगाहना (७) स्थित्य (८) ल्पबहुत्व (९) कृतो भेदः शास्त्रान्तरप्रसिद्धोऽभिधीयते-तत्र कारणकृतो भेदो यथा-स्थूलपुद्गलोपचितमूल्दारिकं न तथा वैक्रियादीनि, 'परं परं सूक्ष्मम्,' (तत्त्वा० अ०२ सू०३८) इतिवचनात् १, प्रदेशसंख्याकृतो भेदो यथा-प्रदेशतः परम्परमसङ्खयेयगुणं प्राक् तैजसात्ततः परमनन्तगुणे तैजसकार्मणे २, स्वामिकृतो भेदो यथा-औदारिकं तिर्यमनुष्याणां, वैक्रियं देवनारकाणां तिर्यङ्कराणां च केषा|श्चित्तल्लब्धिमतां, आहारकं चतुर्दशपूर्व विदां, तैजसकार्मणे सर्वसंसारिणां ३, विषयकृतो भेदो यथा-औदारिकस्य तिर्य
गुत्कृष्टो विषयो विद्याधरानाश्रित्यानन्दीश्वरात्, जङ्घाचारणान् प्रत्यारुचकपर्वतात् , ऊर्ध्वमुभयान् प्रत्यापण्डकवनात्,४ है वैक्रियस्यासंख्येया द्वीपसमुद्राः, आहारकस्य महाविदेहाः, तैजसकार्मणयोः सर्वलोकः ४, प्रयोजनकृतो भेदो यथा
औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयाजनं, वैक्रियस्य स्थूलसूक्ष्मैकानेकत्वव्यामक्षितिगमनाद्यनेक६ रूपा विभूतिः, आहारकस्य सूक्ष्मार्थविषयसंशयविच्छेदादिकं, तैजसस्याहारपाकः शापानुग्रहशक्तिश्च, कार्मणस्य
Jain Education.in
For Privale & Personal use only
W
w
.jainelibrary.org