________________
संग्रहणी॥१२२॥
ACADAR SAMACROCALCONSCREEC
भवान्तरे गतिः ५, प्रमाणकृतो भेदो यथा- उत्कर्षतः सातिरेकयोजनसहस्रमौदारिक, सातिरेकयोजनलक्षमानं नि वैक्रियं, हस्तप्रमाणमाहारकं, लोकाकाशप्रमाणे तैजसकामणे ६, अवगाहनाकृतो भेदो यथा-सातिरेकयोजनसहस्र-4 मौदारिकं यावत्खसङ्खयेयेपु प्रदेशेष्ववगाढं, तेभ्यो बहुतरेष्वसंख्येयप्रदेशेष्ववगाढं योजनलक्षं वैक्रिय, आहारकमाभ्यामल्पप्रदेशावगाढं, हस्तमात्रत्वात् , तैजसकामणे केवलिसमुद्धातमाश्रित्य समस्तलोकाकाशप्रदेशावगाढे ७, स्थितिकृतो भेदो यथा-औदारिकस्य स्थितिजघन्याऽन्तर्मुहूर्तमुत्कृष्टा त्रीणि पल्योपमानि क्रियस्य भवधारणीयस्य जघन्या दश वर्षसहस्राणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, उत्तखैक्रियस्य जघन्याऽन्तर्मुहूर्तम् उत्कृष्टा पुनरेवं जीवाभिगमेऽ, |भिहिता-'अंतमुहुत्तं नरएसु, होन्ति चत्तारि तिरिअमणुएसुं। देवेसु अद्धमासो, उक्कोस विउवणाकालो ॥१॥ भगवत्यां तु वायुकायिकस्य पञ्चेन्द्रियतिर्यग्मनुष्याणां च उत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणैवोक्तेति, आहारकस्योभयथाऽप्यन्तर्मुहूर्त, तैजसकार्मणे प्रवाहतः सर्वेषामनादि(नी) भव्यानां सपर्यवसाने अभव्यानामपर्यवसाने ८, अल्पबहुत्वकृतस्तु भेदो यथा -सर्वस्तोकमाहारकं, कादाचित्कत्वात् , यदाच संभवति तदा जघन्येनैकं द्वेवा उत्कर्षतो नवसहस्राः, अन्तरं चाहारकस्य जघन्यमेकसमयः, उत्कृष्टं षण्मासाः, आहारकशरीरेभ्यो वैक्रियाण्यसङ्खयेयगुणानि, सुरनारकाणामसंख्यातत्वात्,
ID॥१२२॥ तेषां चावश्यं वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीराण्यसंख्येयगुणानि, सकलतिर्यकराणां तत्संभवात् , इह चद्विधा तिर्यञ्चः-प्रत्येकशरीराः साधारणशरीराश्च, तत्र प्रत्येकशरीराणामसंख्यातानां जीवं जीवं प्रत्येकैकशरीरभावा
R-MARRORSCOMXxt-Tra
Jain EducationIKA
For Privale & Personal use only
Claw.jainelibrary.org