________________
ASSACROSCORRC
श्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं च हिंसा ॥१॥ तत्रैकद्वित्रिचतुरिन्द्रियाणां क्रमात् चत्वारः, षट् सप्ताष्टौ च प्राणा भवन्ति, तथाहि-एकेन्द्रियाणां स्पर्शनेन्द्रियं काय उच्छास आयुश्चेति। चत्वारः प्राणाः, द्वीन्द्रियाणामधिके रसनेन्द्रिये वचने च षट्र, त्रीन्द्रियाणामधिके घाणेन्द्रिये सप्त, चतुरिन्द्रियाणामधिके चक्षुरिन्द्रियेऽष्टौ, तथा असंज्ञिनां संज्ञिनां च नव दश च प्राणाः क्रमाद्भवन्ति, तत्रासंज्ञिनां संमूर्च्छिमपञ्चे-|| न्द्रियतिर्यङ्गराणामधिके श्रोत्रेन्द्रिये नव, संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्गराणां देवनारकाणां च मनस्यधिके दशापि । प्राणा इति ॥ २७ ॥ अथैतां संग्रहणी समर्थयन् यत उद्धृत्य येन यदर्थमियं निर्मिता तदाह
संखित्ता संगहणी, गुरुतरसंगहणिमज्झओ एसा।
सिरिसिरिचंदमुणिंदेण णिम्मिआ अत्तपढणट्ठा ॥ २७१ ॥ व्याख्या-इयं पूर्व भगवता जिनभद्रगणिक्षमाश्रमणेन बुद्धिमन्थेन निर्मथ्य श्रुताम्भोधिं सुधेवोद्धता भव्योजीवनी संक्षिप्तसंग्रहणी, सा च मूलटीकागताभिरन्यान्याभिश्च प्रक्षेपगाथाभिवृद्धिं नीयमानाऽधुना यावत् किञ्चिन्यूनचतुःशतीमाना पञ्चशतीमाना च गुरुतरा संजाता, ततस्तनमध्यादुद्धृत्यार्थजातं श्रीहर्षपुरीयगच्छाम्बरशशाङ्कन भगवताश्रीश्रीचन्द्रनाम्ना मुनीन्द्रेण 'एषा व्यावर्ण्यमानखरूपा संग्रहणी निर्मिता, तत्र शास्त्रान्तरेषु प्रज्ञापनादिपु विस्तरेणाभिहिता अर्थाः संक्षिप्य गृह्यन्ते प्रतिपाद्यत्वेनाभिधीयन्तेऽस्यामिति हेरणि(उ०६३८)रित्यौणादिकेऽणिप्रत्यये
व मूलटीकागतात, ततस्तनमध्यामात्र शास्त्रान्तरेषु प्रज्ञा
lain Education
a
l
For Privale & Personal use only
dw.jainelibrary.org