________________
वत्तिः
संग्रहणी
व्याख्या-सुराणां निरयाणां च योनिः अचित्ता-सर्वथा जीवप्रदेशविप्रमुक्ता, यद्यपि च सूक्ष्मैकेन्द्रियाः सकल-14
लोकव्यापिनस्तथापि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमेन सम्बद्धा इत्यचित्तैव तेषां योनिः, 'गब्भे' ॥११४॥
त्ति गर्भजतियङ्नराणां योनिर्मिश्रा-सचित्ताचित्तरूपा, तथाहि-ये शुक्रमिश्राः शोणितपुद्गला योन्याऽऽत्मसात्कृतास्ते सचित्ता, अन्ये त्वचित्ताः, शेषाणां-देवनारकगर्भजतिर्यनरव्यतिरिक्तानामेकद्वित्रिचतुरिन्द्रियसंमूच्छिम-2 तिर्यङ्नराणां योनिस्त्रिभेदा-सचित्ता अचित्ता मिश्रा च। तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्ते काष्ठगोक्षतादौ घुणकृम्यादीनामिव मिश्रेति । तथा निरयाणां योनिः शीता उष्णा च, तत्राद्यासु उष्णवेदनासु तिसृषु पृथ्वीपु शीता, चतुर्थी बहुषूपरितनेपूष्णवेदनेषु नरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषूष्णा, पञ्चम्यां बहुषु शीतवेदनेषूष्णा, स्तोकेपूष्णवेदनेषु शीता, पष्ठीसप्तम्योश्च शीतवेदनयो रकाणां योनिरुष्णव, शीतयोनिकानां हृष्णवेदना अत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति । अन्ये त्याहुः-आद्यपृथ्वीत्रये उष्णा, चतुर्थी क्वचिदुष्णा क्वचिच्छीता, अन्त्यपृथ्वीत्रये तु शीता योनिरिति, तच नाति&|श्लिष्टमित्युपेक्षणीयम् । तथा सुराणां गर्भजतियङ्नराणां च मिश्रा-शीतोष्णरूपोभयस्वभावा, तेजस्कायिकाहै नामुष्णा, शेषाणां-पृथिव्यम्बुवायुवनस्पतिसंमूछिमतिर्यङ्नराणां त्रिधा-केपाञ्चिच्छीता केषाश्चिदुष्णा केषाञ्चित् । मिश्रेति ॥ २५४ ॥ अथ मनुष्याणां योनिविशेषमाह
Jain Education in lana
For Privale & Personal use only
Jaw.jainelibrary.org