________________
क्रमादर्द्धत्रयोदश द्वादश दशदश नव च कुलकोटिलक्षाणि, नरामरनारकाणां क्रमात् द्वादश षड्विंशतिः पञ्चविंशतिश्च कुलकोटिलक्षाणि, सर्वसंख्यया कुलकोटीकोटी सप्तनवतिर्लक्षाः पञ्चाशत्सहस्राः ॥ साम्प्रतं योनीनामेव संवतादिभेदानाह
संवुडजोणि सुरेगिदिनारया विअड विगल गन्भुभया ॥ २५३ ॥ व्याख्या-सुराश्चतुर्विधा, एकेन्द्रियाः पृथिव्यतेजोवायुवनस्पतयो, नारकाश्च पृथ्वीसप्तकवर्तिनः संवृतयोनयः, तत्र देवानां संवृता योनिर्देवशयनीये देवदूष्यान्तरितानां तेषामुत्पादात् , एकेन्द्रियाणां संवृता योनिः स्पष्टमनुपलक्ष्यमाणत्वात् , नारकाणां तु संवृता योनिः संवृतगवाक्षकल्पत्वात् । विकला द्वित्रिचतुरिन्द्रियसंमूछिमपञ्चेन्द्रियतिर्यङ्गरा विवृतयोनयः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् , गर्भजाः पञ्चेन्द्रियतियङ्नराः संवृतविवृतोभययोनयः, गर्भस्य संवृतविवृतरूपत्वात् ,गर्भो यन्तःस्वरूपतो नोपलक्ष्यते,बहिस्तूदरवृद्धयादिनोपलक्ष्यत इति ॥ २५१-२५३ ॥ तथा
अञ्चित्तजोणि सुरनिरय, मीस गम्भे तिभेअ सेसाणं । सीउसिण णिरय सुरगब्भ, मीस तेउसिण सेस तिहा ॥ २५४ ॥
ARCOACROCCASI
lain Education
IMAional
For Privale & Personal use only
H
ww.jainelibrary.org