________________
Jain Education l
*%****
हयगभ संखवत्ता, जोणी कुम्मुन्नयाइ जायंति । अरिहहरि किरामा, वंसीपत्ताइ सेसनरा ॥ २५५ ॥
व्याख्या - त्रिविधा योनिर्मनुष्याणां तद्यथा शङ्खावर्त्ता कूम्र्म्मान्निता वंशीपत्रा च तत्र शङ्खस्येवावर्त्तो यस्यामिति शङ्खावर्त्ता, कूर्म्मपृष्ठमिवोन्नता कूम्र्मोन्निता, संयुक्तवंशी ( पत्रेव वंशी ) पत्रा, तासु च शङ्खावर्त्ता हतगर्भा - नियमादस्यामुत्पन्नोऽपि गर्भो निष्पत्तिं न याति, अतिप्रबलकामाग्निपरितापतो ध्वंसत इति वृद्धवादः, इयं च योनिः स्त्रीरत्नस्य वोद्धव्या, तथा च प्रज्ञापना - "संखावत्ता णं जोणी इत्थिरयणस्स” तथा अर्हन्तो वासुदेवाश्चक्रवर्त्तिनो बलदेवाश्च कूम्र्मोन्नितायामेव जायन्ते, वंशीपत्रायां तु शेषनराः - सामान्यमनुष्या एव जायन्त इत्यर्थः ॥ २५५ ॥ अथायुर्गतं किञ्चिद्विशेषमाह -
आउस्स बंधकालो, अबाहकालो अ अंतसमओ अ । अपवत्तणपणवत्तण, उवक्कमणुवकमा भणिआ ॥ २५६ ॥
व्याख्या - आयुषः सप्त स्थानानि यथायोगं प्रवर्त्तन्ते, तत्र बन्धयोग्यः कालो बन्धकालो यावति जीवितव्यभागे शेषे
For Private & Personal Use Only
www.jainelibrary.org