SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ COLORROCCOLOCTOR व्याख्या-'शस्त्रेण' खगादिना सुतीक्ष्णेनापि 'छेत्तुं' द्विधाकत्तुं 'भेत्तुं वा' खण्डशो विदारयितुं सच्छिद्रं वा कत्तु 'यं' पुद्गलविशेष न शक्ताः पुमांसस्तं 'परमाणु' घटाद्यपेक्षयातिसूक्ष्म 'सिद्धाः' सैद्धान्तिकतया प्रसिद्धा यद्वा | ज्ञानसिद्धाः-केवलिनो 'वदन्ति' ब्रुवते प्रमाणानामङ्गुलहस्तादीनाम् 'आदि' मूलम् । अत्र किलशब्देनेदं सूच्यते-लक्षणमेवेदं परमाणोन पुनस्तं छेत्तुं भेत्तुं वा कोऽप्यारभत इति । एते चानन्ताः परमाणवः एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका, उत्तरप्रमाणापेक्षया उत्पावल्येन श्लक्ष्णश्लक्षिणका उच्छ्लक्ष्णश्लक्षिणका, ता अष्टावेका श्लक्षणलक्षिणका, प्राक्तनप्रमाणापेक्षया अष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टमभागवर्तित्त्वात् , ता अप्यष्टावक ऊर्ध्व रेणुः, ते अष्टौ त्रसरेणुः, ते अष्टौ रथरेणुः, ते अष्टौ देवकुरूत्तरकुरुमनुष्याणामेकं वालाग्रं, तान्यष्टौ हरिवपरम्यकमनुहष्याणां वालाग्रं, तान्यष्टौ लिक्षा, सा अटगुणा यूका, यूका अष्टगुणा यवमध्यं, यवमध्यान्यप्यष्टावेकमुत्सेधाङ्गुलं,र पडङ्गुलानि पादः, द्वौ पादौ वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता धनुः, द्वौ धनुःसहस्रौ गव्यूतं, चत्वारि गव्यूतानि योजनं ॥ २४५ ॥ एतदेव गाथाद्वयेनाह परमाणू तसरेणू, रहरेणू वालअग्गलिक्खा य । जूअ जवो अगुणो, कमेण उस्सेहअंगुलयं ॥ २४६ ॥ Jain Education in For Privale & Personal use only jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy